________________
'संविग्ग'त्ति सम्यग्व्याप्ता-वशीकृताः, शङ्कनीयमशङ्कनीयं वा तथा परित्राणोपेतं पाशाद्यनर्थोपेतं वा सम्यविवेकेना| जानानाः 'तत्र तत्र' अनर्थबहुले पाशवागुरादिके बन्धने 'संपर्ययन्ते' सम्–एकीभावेन परि-समन्तादयन्ते यान्ति वा, 18 गच्छन्तीत्युक्तं भवति, तदेवं दृष्टान्तं प्रसाध्य नियतिवादाद्यकान्ताज्ञानवादिनो दार्टान्तिकलेनाऽऽयोज्याः, यतस्तेऽप्येकान्तवादिनो| ऽज्ञानिकाः त्राणभूतानेकान्तवादवर्जिताः सर्वदोषविनिर्मुक्तं कालेश्वरादिकारणवादाभ्युपगमेनानाशङ्कनीयमनेकान्तवादमाशङ्कन्ते
शङ्कनीयं च नियत्यज्ञानवादमेकान्तं न शङ्कन्ते, 'ते' एवंभूताः परित्राणाहेऽप्यनेकान्तवादे शङ्कां कुर्वाणा युक्त्याऽघटमानकमन| र्थबहुलमेकान्तवादमशङ्कनीयत्वेन गृह्णन्तोऽज्ञानावृतास्तेषु तेषु कर्मबन्धस्थानेषु संपर्ययन्त इति ॥७॥ पूर्वदोषैरतुष्यन्नाचार्यो दोषान्तरदित्सया पुनरपि प्राक्तनदृष्टान्तमधिकृत्याऽऽह___ अह तं पवेज बज्झं, अहे बज्झस्स वा वए । मुच्चेज पयपासाओ, तं तु मंदे ण देहए ॥८॥
'अथ अनन्तरमसौ मृगस्तत् 'बज्झमिति' बद्धं-बन्धनाकारेण व्यवस्थितं वागुरादिकं वा बन्धनं बन्धकखादन्धमित्युच्यते, तदे| वंभूतं कूटपाशादिकं बन्धनं यद्यसावुपरि प्लवेत् तदधस्तादतिक्रम्योपरि गच्छेत्, तस्य वादेर्बन्धनस्याधो (वा) गच्छेत् , तत एवं क्रियमाणेऽसौ मृगः पदे पाशः पदपाशो-वागुरादिबन्धनं तसान्मुच्येत, यदिवा पदं-कूटं पाशः-प्रतीतस्ताभ्यां मुच्येत, कचित्पदपाशादीति पठ्यते, आदिग्रहणाद्वधताडनमारणादिकाः क्रिया गृह्यन्ते, एवं सन्तमपि तमनर्थपरिहरणोपायं 'मन्दो' जडोज्ञानावृतो न 'देहती'ति न पश्यतीति ॥ ८॥ कूटपाशादिकं चापश्यन् यामवस्थामवाप्नोति तां दर्शयितुमाह
paeserverseerseeeeeeeeesesesa
JainEducation
For Personal & Private Use Only
IADainelibrary.org