SearchBrowseAboutContactDonate
Page Preview
Page 655
Loading...
Download File
Download File
Page Text
________________ त्पुरुषसेवितः पन्था येन विषयान्धाः प्रवर्तन्त इति । तदयं प्रथमस्य स्थानस्याधर्मपाक्षिकस्य पापोपादानभूतस्य विभङ्गो-विभागो विशेषः स्वरूपमितियावत् ॥ ५७ ॥ साम्प्रतं द्वितीयं धर्मोपादानभूतं पक्षमाश्रित्याह अहावरे दोच्चस्स हाणस्स धम्मपक्खस्स विभंगे एवमाहिजइ, इह खलु पाईणं वा पडीणं वा उदीणं वा दाहिणं वा संतेगइया मणुस्सा भवंति, तंजहा-आयरिया वेगे अणारिया वेगे उच्चागोया वेगे णीयागोया वेगे कायमंता वेगे हस्समंता वेगे सुवन्ना वेगे दुवन्ना वेगे सुरूवा वेगे दुरूवा वेगे, तेसिं च णं खेत्तवत्थूणि परिग्गहियाइं भवंति, एसो आलावगो जहा पोंडरीए तहा णेतवो, तेणेव अभिलावेण जाव सबोवसंता सवत्ताए परिनिबुडेत्तिबेमि ॥ एस ठाणे आरिए केवले जाव सबदुक्खप्पहीणमग्गे एगंतसम्म साहु, दोचस्स ठाणस्स धम्मपक्खस्स विभंगे एवमाहिए ॥ सूत्रं ३३॥ 'अथे' त्यधर्मपाक्षिकस्थानादनन्तरमयमपरो द्वितीयस्य स्थानस्य 'धर्मपाक्षिकस्य' पुण्योपादानभूतस्य 'विभङ्गो' विभागः ॥ स्वरूपं समाधीयते-सम्यगाख्यायते, तद्यथा-प्राचीनं प्रतीचीनमुदीचीनं दक्षिणं वा दिग्विभागमाश्रित्य 'सन्ति' विद्यन्ते एके केचन कल्याणपरम्पराभाजः 'पुरुषा' मनुष्याः, ते च वक्ष्यमाणखभावा भवन्ति, 'तद्यथे'त्ययमुपप्रदर्शनार्थः, आर्या एके केच नार्यदेशोत्पन्नाः, तथाऽनार्याः शकयवनशबरबर्बरादय इत्याद्येवं यथा पौण्डरीकाध्ययने तथेहापि सर्व निरवयवं भणितव्यम् | 18 यावत्ते 'एवं पूर्वोक्तेन प्रकारेण सर्वेभ्यः पापस्थानेभ्य उपशान्ताः, तथा अत एव सर्वात्मतया परिनिर्वृता इत्यहमेवं ब्रवीमि ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy