SearchBrowseAboutContactDonate
Page Preview
Page 652
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाङ्कीयावृत्तिः ॥३२५॥ | न कर्मणा परितप्यन्ते अन्तर्दद्यन्तेपरांश्च परितापयन्ति । तदेवं तेऽसद्वृत्तयः सन्तो दुःखनशोचनादिक्लेशादप्रतिविरताः सदा भवन्ति । एवंभूताश्च सन्तस्ते महताऽऽरम्भेण - प्राणिव्यापादनरूपेण तथा महता समारम्भेण प्राणिपरितापनरूपेण तथोभाभ्यामप्यारम्भसमारम्भाभ्यां 'विरूपरूपैश्च' नानाप्रकारैः सावद्यानुष्ठानैः पापकर्मकृत्यैः 'उदारान्' अत्यन्तोद्भटान् समग्रसामग्री कान् मधुमद्यमांसाद्युपेतान् 'मानुष्यकान्' मनुष्यभवयोग्यान् भोगेभ्योऽप्युत्कटान् भोगभोगान् ते सावद्यानुष्ठायिनो भोक्तारो भवन्ति । एतदेव दर्श यितुमाह - 'तंज' त्यादि, तद्यथेत्युपप्रदर्शने, अन्नमन्नकाले यथेप्सितं तस्य पापानुष्ठानात्संपद्यते, एवं पानवस्त्रशयनासनादिकमपि । सर्वमेतद्यथाकालं सपूर्वापरं संपद्यते, सह पूर्वेण - पूर्वाह्नकर्तव्येनापरेण च - अपराह्नकर्तव्येन यदिवा पूर्वं यत् क्रियते स्नानादिकं तथा परं च यत् क्रियते विलेपनभोजनादिकं तेन सह वर्तत इति सपूर्वापरम् इदमुक्तं भवति - यद्यदा प्रार्थ्यते तत्तदा संपद्यत इति, अभिलषितार्थप्राप्तिमेव लेशतो दर्शयितुमाह - तद्यथा - विभूत्या स्नातस्तथा कृतं देवतादिनिमित्तं बलिकर्म येन स तथा, तथा कृतानि कौतुकानि - अवतारणकादीनि मङ्गलानि च सुवर्णचन्दनदध्यक्षतदूर्वा सिद्धार्थका दर्शकस्पर्शनादीनि तथा दुःखमादिप्रतिघातकानि प्रायश्चित्तानि येन स कृतकौतुकमङ्गलप्रायश्चित्तः, तथा कल्पितश्चासौ मालाप्रधानो मुकुटश्च २ स तथा विद्यते यस्य स भवति कल्पितमाला मुकुटी, तथा प्रतिबद्धशरीरो- दृढावयवकायो युवेत्यर्थः, तथा ' वग्घारियं' ति प्रलम्बितं श्रोणीसूत्रं - कटिसूत्रं मल्लदाम कलापश्च येन स तथा तदेवमसौ शिरसिस्नातः नानाविधविलेपनावलिप्तश्च कण्ठेकृतमालस्तथाऽपरयथोक्तभूषणभूषितः सन्महत्याम् - उच्चायां 'महालियाए 'त्ति विस्तीर्णायां कूटागारशालायां तथा 'महतिमहालये' विस्तीर्णे 'सिंहासने' भद्रासने समुपविष्टः 'स्त्रीगुल्मेन' युवतिजनेन सार्द्धमपरपरिवारेण 'संपरिवृतो' वेष्टितः, तथा 'महता' बृहत्तरेण प्रहतनाट्यगीतवादित्र Jain Education International For Personal & Private Use Only २ क्रिया स्थानाध्य० अधार्मिक पक्षः ॥ ३२५॥ www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy