SearchBrowseAboutContactDonate
Page Preview
Page 651
Loading...
Download File
Download File
Page Text
________________ ष्टितयाऽपशकुनोऽयमित्येवं मन्यमानः सन् दृष्टिपथादपसारयन् साधुमुद्दिश्यावज्ञया 'अप्सराया' चप्पुटिकायाः आस्फालयिता भव-10 | त्यथवा तत्तिरस्कारमापादयन् परुषं वचो ब्रूयात् , तद्यथा-ओदनमुण्ड ! निरर्थककायक्लेशपरायण दुर्बुद्धेऽपसराग्रतः, तदसौ भ्रुकुटिं वि-18 दध्यादसत्यं वा ब्रूयात् , तथा भिक्षाकालेनापि 'से तस्य भिक्षोरन्येभ्यो भिक्षाचरेभ्योऽनु-पश्चात्प्रविष्टस्य सतोऽत्यन्तदुष्टतयाऽन्नादेनों दापयिता भवति, अपरं च दानोद्यतं निषेधयति तत्प्रत्यनीकतया, एतच्च ब्रूते-ये इमे पापण्डिका भवन्ति त एवंभूता भवन्तीत्याह-1% 'वोपण न्ति तृणकाष्ठहारादिकमधमकर्म तद् विद्यते येषां ते तद्वन्तः, तथा मारेण-कुटुम्बभारेण पोट्टलिकादिभारेण वाऽऽक्रान्ताःपराभग्नाः सुखलिप्सवोऽलसा:-क्रमागतं कुटुम्ब पालयितुमसमर्थाः ते पाषण्डव्रतमाश्रयन्ति, तथा चोक्तम्-'गृहाश्रमपरोधर्मो, न भूतो न भविष्यति । पालयन्ति नरा धन्याः, क्लीवाः पाषण्डमाश्रिताः॥१॥ इत्यादि, तथा 'वसलगति वृषला-अधमाः शूद्रजातयस्त्रिवर्गप्रतिचारकाः, तथा 'कृपणालीबा अकिञ्चित्कराः श्रमणा भवन्ति-प्रव्रज्यां गृह्णन्तीति ।साम्प्रतमेषामगारिकाणामत्यन्तविपर्यस्तमतीनामसवृत्तमाविर्भावयन्नाह-ते हि साधुवर्गापवादिनः सद्धर्मप्रत्यनीका इदमेव 'जीवितं' परापवादोद्घट्टनजीवितं 'धिगजीवितं' कुत्सितं जीवितं साधुजुगुप्सापरायणं संप्रतिबृंहन्ति, एतदेवासवृत्तजीवितं प्रशंसन्तीति भावः। ते चेहलोकप्रतिबद्धाः साधुजु गुप्साजीविनो मोहान्धाः साधूनपवदम्ति, नापि च ते पारलौकिकस्वार्थस्य साधनम्-अनुष्ठानं 'किञ्चिदपि वल्पमपि 'श्लिष्यन्ति | | समाश्रयन्ति, केवलं से परान् साधुन् वागादिभिरनुष्ठानैर्दुःखयन्ति-पीडामुत्पादयन्ति आत्मनः परेषां च, तथा तेऽज्ञानान्धास्तथा तस्कुर्वन्ति येनाधिकं शोषन्ते, परामपि शोचयम्ति-दुर्भाषितादिमिः शोके चोत्पादयन्ति, तथा ते परान् 'जूरयन्ति' गर्हन्ति, तथा विष्यन्ति-सुखाच्यावयम्त्यात्मानं परांच, तथा ते वराका अपुष्टवर्माणोऽसदनुष्ठाना खतः पीड्यन्ते परांश्च पीडयन्ति, तथा ते पापे Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy