________________
cenesseeeeeeeeeeeeeeeeeees
फलाद्युद्भवो न सर्वदेति, यच्चोक्तं 'कालस्यैकरूपताजगद्वैचित्र्यं न घटत' इति, तदसान् प्रति न दूषणं, यतोऽस्माभिर्न काल एवैकः 8| कर्तृखेनाभ्युपगम्यते अपि तु कर्मापि, ततो जगद्वैचित्र्यमित्यदोषः । तथेश्वरोऽपि कर्ता, आत्मैव हि तत्र तत्रोत्पत्तिद्वारेण सकलजगद्व्यापनादीश्वरः, तस्य सुखदुःखोत्पत्तिकर्तृवं सर्ववादिनामविगानेन सिद्धमेव, यच्चात्र मूर्तामूर्तादिकं दूषणमुपन्यस्तं तदेवंभूते-12 |श्वरसमाश्रयणे दूरोत्सादितमेवेति । स्वभावस्थापि कथञ्चित्कर्तृखमेव, तथाहि-आत्मन उपयोगलक्षणसमसंख्येयप्रदेशवं पुद्गलानां च मूर्तलं धर्माधर्मास्तिकाययोर्गतिस्थित्युपष्टम्भकारिखममूर्तवं चेत्येवमादि स्वभावापादितं, यदपि चात्रात्मव्यतिरेकाव्यतिरेकरूपं दुषणमुपन्यस्तं तददूषणमेव, यतः खभाव आत्मनोऽव्यतिरिक्तः, आत्मनोऽपि च कर्तृखमभ्युपगतमेतदपि खभावापादितमेवेति । तथा कर्मापि कर्तृ भवत्येव, तद्धि जीवप्रदेशैः सहान्योऽन्यानुवेधरूपतया व्यवस्थितं कथञ्चिच्चात्मनोऽभिन्न, तद्वशाच्चात्मा नारकतिर्यमनुष्यामरभवेषु पर्यटन् सुखदुःखादिकमनुभवतीति । तदेवं नियत्यनियत्योः कर्तृवे युक्त्युपपन्ने सति नियतेरेव कर्तृखमभ्युपगच्छन्तो निर्बुद्धिका भवन्तीत्यवसेयम् ॥ ४ ॥ तदेवं युक्त्या नियतिवादं दूषयिखा तद्वादिनामपायदर्शनायाह-'एव'मिति पूर्वाभ्युपगमसंसूचकः, सर्वस्मिन्नपि वस्तुनि नियतानियते सत्येके नियतिमेवावश्यंभाव्येव कालेश्वरादेर्निराकरणेन निर्हेतुकतया नियतिवादमाश्रिताः, तुरवधारणे, त एव नान्ये, किंविशिष्टाः पुनस्ते इति दर्शयति-युक्तिकदम्बकादहिस्तिष्ठन्तीति पार्श्वस्थाः । परलोकक्रियापार्श्वस्था वा, नियतिपक्षसमाश्रयणात्परलोकक्रियावैयर्थ्य, यदिवा-पाश इव पाश:-कर्मबन्धनं, तच्चेह युक्तिविकलनियतिवादप्ररूपणं तत्र स्थिताः पाशस्थाः, अन्येऽप्येकान्तवादिनः कालेश्वरादिकारणिकाः पार्श्वस्थाः पाशस्था वा द्रष्टव्या
Hassagesasa999999999999
Jain Education.
comal
For Personal & Private Use Only
AHainelibrary.org