SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ सूत्रकताङ्गं शीलाङ्काचार्यायवृत्तियुतं १समया० उद्देशः २ नियतिवादिमतं ॥३१॥ 000000000000000000000000 एवमेयाणि जंपंता, बाला पंडिअमाणिणो । निययानिययं संतं, अयाणंता अबुद्धिया ॥ ४ ॥ एवमेगे उ पासत्था, ते भुजो विप्पगब्भिआ। एवं उवढिआ संता, ण ते दुक्खविमोक्खया ॥५॥ 'एवम्' इति अनन्तरोक्तस्योपप्रदर्शने 'एतानि' पूर्वोक्तानि नियतिवादाश्रितानि वचनानि 'जल्पन्त: अभिदधतो बाला इव 'बाला' अज्ञाः सदसद्विवेकविकला अपि सन्तः 'पण्डितमानिन' आत्मानं पण्डितं मन्तुं शीलं येषां ते तथा, किमिति त एवमुच्यत? इति तदाह-यतो निययानिययं संतमिति'सुखादिकं किञ्चिनियतिकृतम्-अवश्यंभाव्युदयप्रापितं तथा अनियतम्-आत्मपुरुष| कारेश्वरादिनापितं सत् नियतिकृतमेवैकान्तेनाश्रयन्ति,अतोऽजानानाः सुखदुःखादिकारणं अबुद्धिका-बुद्धिरहिता भवन्तीति,तथाहि| आर्हतानां किश्चित्सुखदुःखादि नियतित एव भवति–तत्कारणस्य कर्मणः कसिंश्चिदवसरेऽवश्यंभाव्युदयसद्भावान्नियतिकृतमित्यु|च्यते, तथा किञ्चिदनियतिकृतं च-पुरुषकारकालेश्वरस्वभावकर्मादिकृतं, तत्र कथञ्चित्सुखदुःखादेः पुरुषकारसाध्यत्वमप्याश्रीयते, यतः क्रियातः फलं भवति, क्रिया च पुरुषकाराऽऽयत्ता प्रवर्तते, तथा चोक्तम्,-"न दैवमिति संचिन्त्य, त्यजेदुद्यममात्मनः । | अनुद्यमेन कस्तैलं, तिलेभ्यः प्राप्तुमर्हति ? ॥१॥" यत्तु समाने पुरुषव्यापारे फलवैचित्र्यं दुपणखेनोपन्यस्तं तददूषणमेव, यतस्त त्रापि पुरुषकारवैचित्र्यमपि फलवैचित्र्ये कारणं भवति, समाने वा पुरुषकारे यः फलाभावः कस्यचिद्भवति सोऽदृष्टकृतः, तदपि | चासाभिः कारणखेनाश्रितमेव । तथा कालोऽपि कर्ता, यतो बकुलचम्पकाशोकपुन्नागनागसहकारादीनां विशिष्ट एव काले पुष्प dain Education anal For Personal & Private Use Only M ainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy