________________
| पुरुषाद्भिन्नोऽभिन्नो वा ?, यदि भिन्नो न पुरुषाश्रिते सुखदुःखे कर्तुमलं, तसाद्भिन्नत्वादिति, नाप्यभिन्नः अभेदे पुरुष एव स्यात् , तस्य चाकर्तृवमुक्तमेव । नापि कर्मणः सुखदुःखं प्रति कर्तृ घटते, यतस्तत्कर्म पुरुषाद्भिन्नमभिन्न वा भवेत् १, अभिन्न | चेत्पुरुषमात्रतापत्तिः कर्मणः, तत्र चोक्तो दोषः, अथ भिन्न तरिक सचेतनमचेतनं वा ?, यदि सचेतनमेकस्मिन् काये चैतन्यद्ध यापत्तिः, अथाचेतनं तथा सति कुतस्तस्य पाषाणखण्डस्येवास्वतत्रस्य सुखदुःखोत्पादन प्रति कर्तृखमिति, एतच्चोत्तरत्र व्यासेन
प्रतिपादयिष्यत इत्यलं प्रसङ्गेन । तदेवं सुखं 'सैद्धिकं' सिद्धौ-अपवर्गलक्षणायां भवं यदिवा दुःखम्-असातोदयलक्षणमसैद्धिकं 18 सांसारिकं, यदिवा उभयमप्येतत्सुखं दुःखं वा, स्रक्चन्दनाङ्गनायुपभोगक्रियासिद्धौ भवं तथा कशाताडनानादिसिद्धौ भवं |सैद्धिकं, तथा 'असैद्धिक सुखमान्तरमानन्दरूपमाकमिकमनवधारितबाह्यनिमित्तम् एवं दुःखमपि ज्वरशिरोऽतिशूलादिरूपमजोत्थमसैद्धिक, तदेतदुभयमपि न खयं पुरुषकारेण कृतं नाप्यन्येन केनचित् कालादिना कृतं 'वेदयन्ति' अनुभवन्ति 'पृथक्जीवाः' प्राणिन इति । कथं तर्हि तत्तेषामभूत् ? इति नियतिवादी स्वाभिप्रायमाविष्करोति-"संगइयंति" सम्यक्स्वपरिणामेन गतिः| यस्य यदा यत्र यत्सुखदुःखानुभवनं सा संगतिः नियतिस्तस्यां भवं सांगतिकं, यतश्चैवं न पुरुषकारादिकृतं सुखदुःखादि अतस्तत्तेषां प्राणिनां नियतिकृतं सांगतिकमित्युच्यते, 'इह' अस्मिन् सुखदुःखानुभववादे एकेषां वादिनाम् 'आख्यातं तेषामयमभ्युप| गमः, तथा चोक्तम्- "प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः, सोऽवश्यं भवति नृणां शुभोऽशुभो वा । भूतानां महति कृतेऽपि हि | प्रयत्ने, नाभाव्यं भवति न भाविनोऽस्ति नाशः॥१॥"॥३॥ एवं श्लोकद्वयेन नियतिवादिमतमुपन्यस्यास्योत्तरदानायाह
JainEducation international
For Personal & Private Use Only
www.jainelibrary.org