SearchBrowseAboutContactDonate
Page Preview
Page 635
Loading...
Download File
Download File
Page Text
________________ मात्मार्थ संवृतस्यानगारस्यापथिकादिभिः पञ्चभिः समितिभिर्मनोवाकायैः समितस्य तथा तिसृभिर्गुप्तिभिर्गुप्तस्य, पुनर्गुप्तिग्रहणमेता भिरेव गुप्तिभिगुप्तो भवतीत्यस्यार्थस्याविर्भावनायात्यादरख्यापनार्थ वेति । तथा गुप्तेन्द्रियस्य नवब्रह्मचर्यगुप्युपेतब्रह्मचारिणश्च सतः, तथोपयुक्तं गच्छतस्तिष्ठतो निषीदतस्वक्वर्तनां कुर्वाणस्य तथोपयुक्तमेव वस्त्रं पतद्ग्रह कम्बलं पादपुञ्छनकं वा गृढतो निक्षिपतो वा यावच्चक्षुःपक्ष्मनिपातमप्युपयुक्तं कुर्वतः सतोऽत्यन्तमुपयुक्तस्यापि अस्ति-विद्यते विविधा मात्रा विमात्रा तदेवंविधा | सूक्ष्माक्षिपक्ष्मसंचलनरूपादिकर्यापथिका नाम क्रिया केवलिनाऽपि क्रियते, तथाहि-सयोगी जीवो न शक्नोति क्षणमप्येकं निश्चलः | स्थातुम् , अग्निना ताप्यमानोदकवत्कार्मणशरीरानुगतः सदा परिवर्तयन्नेवास्ते, तथा चोक्तम्-"केवली णं भंते ! अस्सि समयसि | जेसु आगासपएसेसु" इत्यादि । तदेवं केवलिनोऽपि सूक्ष्मगात्रसंचारा भवन्ति, इह च कारणे कार्योपचारात्तया क्रियया यबध्यते | | कर्म तस्य च कर्मणो या अवस्थास्ताः क्रियाः, ता एव दर्शयितुमाह-'सा पढमसमये' इत्यादि, याऽसावकपायिणः क्रिया तया | यद्वध्यते कर्म तत्प्रथमसमय एव बद्धं स्पृष्ट चेतिकृखा तक्रियैव बद्धस्पृष्टत्युक्ता, तथा द्वितीयसमये वेदितेत्यनुभूता तृतीयसमये निर्जीर्णा, एतदुक्तं भवति-कर्म योगनिमित्तं बध्यते, तत्स्थितिश्च कषायायत्ता, तदभावाच्च न तस्य सांपरायिकस्येव स्थितिः, किंतु | योगसद्भावाद्वध्यमानमेव स्पृष्टतां-संश्लेषं याति, द्वितीयसमये खनुभूयते, तच्च प्रकृतितः सातावेदनीयं स्थितितो द्विसमयस्थिति| कमनुभावतः शुभानुभावं अनुत्तरोपपातिकदेवसुखातिशायि प्रदेशतो बहुप्रदेशमस्थिरबन्धं बहुव्ययं च, तदेवं सेयोपथिका क्रिया १ केवली भदन्त ! अस्मिन् समये येष्वाकाशप्रदेशेषु । २ बध्यमानस्य बद्धवादाद्यस्य गणना तृतीयस्य तु निजार्यमाणस्य निर्णयान्न स्थितौ गणनेति उक्तमित्थं, | भाष्ये तत्त्वार्थस्य तु एकसमयस्थितिकमिति । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy