SearchBrowseAboutContactDonate
Page Preview
Page 629
Loading...
Download File
Download File
Page Text
________________ तच्छल्यं निष्प्रयोजनमेव 'निहुते' अपलपति, तेन च शल्येनासावन्तर्वतिना 'अविउमाणे त्ति पीड्यमानः 'अंतो अंतोत्ति श्री मध्ये मध्ये पीड्यमानोऽपि 'रीयते' व्रजति, तत्कृतां वेदनामधिसहमानः क्रियासु प्रवर्तत इत्यर्थः । साम्प्रतं दान्तिकमाह'एवमेवेत्यादि, यथाऽसौ सशल्यो दुःखभाग्भवति एवमेवासौ 'मायी' मायाशल्यवान् यत्कृतमकार्य तन्मायया निगृहयन् मायां कृखा न तां मायामन्यस्मै 'आलोचयति' कथयति, नापि तस्मात् स्थानात्प्रतिक्रामति-न ततो निवर्तते, नाप्यात्मसाक्षिक तन्मायाशल्यं निन्दति, तद्यथा-धि मां यदहमेवंभूतमकार्य कर्मोदयात्तत् कृतवान् , तथा नापि परसाक्षिकं गर्हति-आलोचनाईस मीपे गतो नापि च जुगुप्सते, तथा 'नो विउदृति' नापि तन्मायाख्यं शल्यमकार्यकरणात्मकं विविधम्-अनेकप्रकारं त्रोटयति18 अपनयति, यद्यस्यापराधस्य प्रायश्चित्तं तत्तेन पुनस्तदकरणतया (न) निवर्तयतीत्यर्थः, नापि तन्मयादिकमकार्य सेविखाऽऽलोचना-18 यात्मानं निवेद्य तदकार्याकरणतयाऽभ्युत्तिष्ठते, प्रायश्चित्तं प्रतिपद्यापि नोद्युक्तविहारी भवतीत्यर्थः, तथा नापि गुर्वादिभिर-18 भिधीयमानोऽपि 'यथाऽहम्' अकार्यनिर्वहणयोग्यं प्रायः चित्तं शोधयतीति प्रायश्चित्तं तपःकर्म विशिष्टं चान्द्रायणाद्यात्मकं 'प्रतिपद्यते' अभ्युपगच्छति । तदेवं मायया सत्कार्यप्रच्छादकोऽसिन्नेव लोके मायावीत्येवं सर्वकार्येष्वेवाविश्रम्भणखेन 'प्रत्यायाति' प्रख्याति याति, तथाभूतश्च सर्वस्यापि अविश्वास्यो भवति, तथा चोक्तम्-"मायाशीलः पुरुषः" (यद्यपि न करोति किश्चिदपराधं । सर्वस्याविश्वास्यो भवति तथाप्यात्मदोषहतः।११) इत्यादि, तथाऽतिमायाविखादसौ परस्मिन् लोके जन्मान्तरावाप्तौ सर्वाधमेषु । | यातनास्थानेषु नरकतिर्यगादिषु 'पौनःपुन्येन प्रत्यायाति' भूयोभूयस्तेष्वेवारघट्टघटीयत्रन्यायेन प्रत्यागच्छतीति । तथा नानाविधैः प्रपञ्चैर्वश्चयिखा परं निन्दति जुगप्सते, तद्यथा-अयमज्ञः पशुकल्पो नानेन किमपि प्रयोजनमिति, एवं परं निन्दयिखाऽऽत्मानं प्रशं Jain Education International For Personal & Private Use Only www.janelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy