________________
सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाङ्कीयावृत्तिः
॥३१३॥
रियं दंड छापति, माई असमाहडसुहलेस्से यावि भवइ, एवं खलु तस्स तप्पत्तियं सावज्जंति आहिज्जइ, एक्कारसमे किरियाणे मायावत्तिएत्ति आहिए ॥ सूत्रं २७ ॥
अथापरमेकादशं क्रियास्थानमाख्यायते, तद्यथा - ये केचनामी भवन्ति पुरुषाः, किंविशिष्टाः ? - गूढ आचारो येषां ते गूढाचाराः - गलकर्तकग्रन्थिच्छेदादयः, ते च नानाविधैरुपायैर्विश्रम्भमुत्पाद्य पश्चादपकुर्वन्ति, प्रद्योतादेर भयकुमारादिवत् । ते च मायाशीलत्वेनाप्रकाशचारिणः, तमसि कषितुं शीलं येषां ते तमसिकाषिणस्त एव च काषिकाः, पराविज्ञाताः क्रियाः कुर्वन्तीत्यर्थः । ते च स्वचेष्टयैवोलूकपत्रवल्लघवः, कौशिकपिच्छवल्लघीयांसोऽपि पर्वतवद्गुरुमात्मानं मन्यन्ते, यदिवाऽकार्यप्रवृत्तेः पर्वतवन्नो स्तम्भयितुं शक्यन्ते, ते चाऽर्यदेशोत्पन्ना अपि सन्तः शाठ्यादात्मप्रच्छादनार्थमपर भयोत्पादनार्थं चानार्यभाषाः प्रयुञ्जते, परव्यामोहार्थं स्वमतिपरिकल्पितभाषाभिरपरा विदिताभिर्भाषन्ते, तथाऽन्यथाव्यवस्थितमात्मानम् अन्यथा - साध्वाकारेण मन्यन्ते व्यवस्थापयन्ति च तथाऽन्यत्पृष्टा मातृस्थानतोऽन्यदाचक्षते, यथाऽऽम्रान् पृष्टाः केदारकानाचक्षते, वादकाले वा कश्चिन्नाथ (न्याय) वादितया | व्याकरणे प्रवीणस्त (णं तर्कमार्गमवतारयति, यथा वा 'शरदि वाजपेयेन यजेते' त्यस्य वाक्यस्यार्थं पृष्टस्तदर्थानभिज्ञः कालातिपातार्थ शरत्कालं व्यावर्णयति, तथाऽन्यस्मिंश्चार्थे कथयितव्येऽन्यमेवार्थमाचक्षते ।। तेषां च सर्वार्थविसंवादिनां कपटप्रपञ्चचतुराणां विपाकोद्भवना दृष्टान्तं दर्शयितुमाह - 'से जहे' त्यादि, तत् यथा नाम कचित्पुरुषः संग्रामादपक्रान्तोऽन्तः - मध्ये शल्यं - तोमरादिकं यस्य सोऽन्तः शल्यः, स च शल्य घट्टनवेदनाभीरुतया तच्छल्यं न खतो 'निर्हरति' अपनयति - उद्धरति नाप्यन्येनोद्धारयति, नापि तच्छल्यं वैद्योपदेशेनौषधोपयोगादिभिरुपायैः 'प्रतिध्वंसयति' विनाशयति, अन्येन केनचित्पृष्टो वाऽपृष्टो वा
Jain Education International
For Personal & Private Use Only
२ क्रियास्थानाध्य० मायाप्रत्य
यिकं ११
॥३१३॥
www.jainelibrary.org