SearchBrowseAboutContactDonate
Page Preview
Page 623
Loading...
Download File
Download File
Page Text
________________ अथापरमष्टमं क्रियास्थानमाध्यात्मिकमिति-अन्तःकरणोद्भवमाख्यायते, तद्यथा नाम कश्चित्पुरुषश्चिन्तोत्प्रेक्षाप्रधानः, तस्य च नास्ति कश्चिद्विसंवादयिता-न तस्य कश्चिद्विसंवादेन परिभावेन वाऽसद्भूतोद्भावनेन वा चित्तदुःखमुत्पादयति, तथाप्यसौ स्वयमेव वर्णापसदवद्दीनो दुर्गतवद्धीनो दुश्चित्ततया दुष्टो दुर्मनास्तथोपहतोऽस्वस्थतया मनःसंकल्पो यस्य स तथा, तथा चिन्तैव शोक इति वा (स एव) सागरः चिन्ताशोकसागरश्चिन्ताप्रधानो वाशोकश्चिन्ताशोकः स एव सागरः तत्र प्रविष्टः चिन्ताशोकसागरप्रविष्टः । तथा भूतश्च यदवस्थो भवति तद्दर्शयति-करतले पर्यस्तं मुखं यस्य स तथाऽहर्निशं भवति, तथाऽऽर्तध्यानोपगतोऽपगतसद्विवेकतया धर्मध्यानाद्रवती निनिमित्तमेव द्वन्द्वोपहतवद्ध्यायति । तस्यैवं चिन्ताशोकसागरावगाढस्य सत आध्यात्मिकानि-अन्तःकरणोद्भवानि मनःसंश्रितान्यसंशयितानि वा-निःसंशयानि चखारि वक्ष्यमाणानि स्थानानि भवन्ति, तानि चैवमाख्यायन्ते, तद्यथा-क्रोधस्थानं |मानस्थानं मायास्थानं लोभस्थानमिति । ते चावश्यं क्रोधमानमायालोमा आत्मनोऽधि भवन्त्या(न्तीत्या)ध्यात्मिकाः, एभिरेव सद्भिदृष्टं | मनो भवति । तदेवं तस दुर्मनसः क्रोधमानमायालोभवत एवमेवोपहतमनःसंकल्पस्य 'तत्प्रत्ययिकम्' अध्यात्मनिमित्तं सावा कर्म 'आधीयते' संबध्यते । तदेवमष्टममेतक्रियास्थानमाध्यात्मिकायमाख्यातमिति ॥ अहावरे णवमे किरियट्ठाणे माणवत्तिएत्ति आहिजइ, से जहाणामए केइ पुरिसे जातिमएण वा कुलमएण वा बलमएण वा रूवमएण वा तवमएण वा सुयमएण वा लाभमएण वा इस्सरियमएण वा पन्नामएण वा अन्नतरेण वा मयट्ठाणेणं मत्ते समाणे परं हीलेति निदेति खिंसति गरहति परिभवइ अवमण्णेति, इत्तरिए अयं, अहमंसि पुण विसिट्ठजाइकुलबलाइगुणोववेए, एवं अप्पाणं समुक्कस्से, देहचुए कम्मबि teeeeeeeeeeeeeeeeeee Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy