SearchBrowseAboutContactDonate
Page Preview
Page 617
Loading...
Download File
Download File
Page Text
________________ नो तस्य शरीरस्य किमपि परित्राणाय 'तत् प्राणव्यपरोपणं भवति, इत्येवमादिकं कारणमनपेक्ष्यवासौ क्रीडया तच्छीलतया व्य|सनेन वा प्राणिनां हन्ता भवति दण्डादिभिः तथा छेत्ता भवति कर्णनासिकाविकर्तनतः तथा भेत्ता शूलादिना तथा लुम्पयिता | अन्यतराङ्गावयवविकर्तनतः तथा विलुम्पयिता अझ्युत्पाटनचर्मविकतनकरपादादिच्छेदनतः परमाधार्मिकवत्प्राणिनां निर्निमित्तमेव | नानाविधोपायैः पीडोत्पादको भवति तथा जीवितादप्यपद्रावयिता भवति, स च सद्विवेकमुज्झिखाऽऽत्मानं वा परित्यज्य बालव-18 हाल:-अज्ञोऽसमीक्षितकारितया जन्मान्तरानुबन्धिनो वैरथाभागी भवति, तदेवं निर्निमित्तमेव पञ्चेन्द्रियप्राणिपीडनतो यथाऽन-18 र्थदण्डो भवति तथा प्रतिपादितम् , अधुना स्थावरानधिकृत्योच्यते-'से जहे त्यादि, यथा कश्चित्पुरुषो निर्विवेकः पथि गच्छन् । वृक्षादेः पल्लवादिकं दण्डादिना प्रध्वंसयन् फलनिरपेक्षस्तच्छीलतया व्रजति, एतदेव दर्शयति–जे इमे' इत्यादि, ये केचन 'अमी' प्रत्यक्षाः स्थावरा वनस्पतिकायाः प्राणिनो भवन्ति, तद्यथा-इक्कडादयो वनस्पतिविशेषा उत्तानार्थास्तदिहेयमिकडा ममा-1 नया प्रयोजनमित्येवमभिसंधाय न छिनत्ति, केवलं तत्पत्रपुष्पफलादिनिरपेक्षस्तच्छीलतया छिनत्तीत्येतत्सर्वत्रानुयोजनीयमिति, तथा| न पुत्रपोषणाय नो पशुपोषणाय नागारप्रतिबृंहणाय न श्रमणब्राह्मणवृत्तये नापि शरीरस्य किश्चित्परित्राणं भविष्यतीति, केवलमेव| मेवासौ वनस्पति हन्ता छेत्तेत्यादि यावजन्मान्तरानुबन्धिनो वैरस्याभागी भवति, अयं वनस्पत्याश्रयोऽनर्थदण्डोऽभिहितः॥ साम्प्रतमण्याश्रितमाह-'से जहे'त्यादि, तद्यथा नाम कश्चित्पुरुषः सदसद्विवेकविकलतया कच्छादिकेषु दशसु स्थानेषु वनदुर्गपर्य-19 न्तेषु तृणानि-कुशपुष्पकादीनि पौनःपुन्येनोर्ध्वाधःस्थानि कृखा 'अग्निकार्य हुतभुजं 'निसृजति' प्रक्षिपत्यन्येन वाऽग्निकार्य बहुसत्त्वापकारिणं दवार्थ 'निसर्जयति' प्रक्षेपयत्यन्यं च निसृजन्तं समनुजानीते । तदेवं योगत्रिकेण कृतकारितानुमतिभिस्तस्य Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy