SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ धादिवादिनो मिथ्यात्वोपहतान्तरात्मानोऽसद्ग्रहाभिनिविष्टाः परमार्थावबोधविकलाः सन्तः संसारचक्रवाले व्याधिमृत्युजराकुले उच्चावचानि स्थानानि गछन्तो गर्भमेष्यन्त्यन्वेषयन्ति वाऽनन्तश' इति, तदिहापि नियत्यज्ञानिज्ञानचतुर्विधकर्माप| चयवादिनां तदेव संसारचक्रवालभ्रमणगर्भान्वेषणं प्रतिपाद्यते । परम्परसूत्रं तु 'बुज्झझे त्यादि, तेन च सहायं संबन्धः-तत्र बुध्येतेत्येतत् प्रतिपादितम् , इहापि यदाख्यातं नियतिवादिभिस्तदुध्येत, इत्येवं मध्यसूत्रैरपि यथासंभवं संबन्धो लगनीय इति तदेवं पूर्वोत्तरसंबन्धसंबद्धस्यास्य सूत्रस्याधुनार्थः प्रतन्यते-पुनःशब्दः पूर्ववादिभ्यो विशेष दर्शयति, नियतिवादिनां पुनरेकेषामतदाख्यातं, अत्र च 'अविवक्षितकर्मका अपि अकर्मका भवन्ती'ति ख्यातेर्धातो वे निष्ठाप्रत्ययः तद्योगे कर्तरि षष्ठी ततश्चायमर्थः-तैनियतिवादिभिः पुनरिदमाख्यातं, तेषामयमाशय इत्यर्थः, तद्यथा-'उपपन्ना' युक्त्या घटमानका इति, अनेन च पञ्चभूततज्जीवतच्छरीरवादिमतमपाकृतं भवति, युक्तिस्तु लेशतः प्राग्दर्शितैव प्रदर्शयिष्यते च, पृथक पृथक् नारकादिभवेषु शरीरेषु वेति, अनेनाप्यात्माद्वैतवादिनिरासोऽवसेयः, के पुनस्ते पृथगुपपन्नाः, तदाह-'जीवा.' प्राणिनः सुखदुःखभोगिनः, अनेन च पञ्चस्कन्धातिरिक्तजीवाभावप्रतिपादकबौद्धमतापक्षेपः कृतो द्रष्टव्यः, तथा ते जीवाः 'पृथक पृथक् प्रत्येकदेहे व्यवस्थिताः सुखं | | दुःखं च 'वेदयन्ति' अनुभवन्ति, न वयं प्रतिप्राणि प्रतीतं सुखदुःखानुभवं निहुमहे, अनेन चाकर्तृवादिनो निरस्ता भवन्ति, अकर्तयविकारिण्यात्मनि सुखदुःखानुभवानुपपत्तेरिति भावः । तथैतदस्माभिर्नापलप्यते 'अदुवे ति अथवा ते प्राणिनः सुखं दुःखं चानुभवन्ति, 'विलुप्यन्ते' उच्छिद्यन्ते खायुषः प्रच्याव्यन्ते स्थानात्स्थानान्तरं संक्राम्यन्त इत्यर्थः,ततश्चौपपातिकत्वमप्यस्माभिस्तेषां १न कर्मापचय प्र. Sain Education For Personal & Private Use Only IYLiainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy