________________
सूत्रकृताङ्गे २ श्रुतस्क न्धे शीलाङ्कीयावृत्तिः ॥३०३ ॥
किं तत्र कचिदुपायः स नास्ति ? येनोपायेन गृहीत कमलः सन् तां पुष्करिणीमुल्लङ्घयेदविपन्न इति । तदुल्लङ्घनोपायं दर्शयितुमाह'विद्या वे' त्यादि, विद्या वा काचित्प्रज्ञत्यादिका देवताकर्म वाऽथवाऽऽकाशगमनलब्धिर्वा कस्यचिद्भवेत् तेनासावविपन्नो गृही तपौ|ण्डरीकः समुल्लङ्घयेत्तां पुष्करिणीम् एष च जिनैरुपायः समाख्यात इति । सर्वोपसंहारार्थमाह - 'सुद्धप्पे ' त्यादि, शुद्धप्रयोगविद्या सिद्धा | जिनस्यैव विज्ञानरूपा विद्या नान्यस्य कस्यचिद्यया विद्यया तीर्थकरदर्शितया भव्यजनपौण्डरीकाः सिद्धिमुपगच्छन्तीति । गतोऽनुगमः, साम्प्रतं नयाः, ते च पूर्ववद्रष्टव्या इति ॥ समाप्तं पौण्डरीकाख्यं द्वितीयश्रुतस्कन्धे प्रथमाध्ययनमिति । [ ग्रन्थाग्रम् १०३० ]
Jain Education International
इति श्रीसूत्रकृताङ्गे पौण्डरीकाख्यमाद्यमध्ययनं समाप्तम् ॥
For Personal & Private Use Only
XSXSX
१ पौण्डरीकाध्यय० भिक्षोर्वृत्तिः
॥३०३॥
www.jainelibrary.org