________________
अथ द्वितीयक्रियास्थानाख्याध्ययनस्य प्रारम्भः ॥
व्याख्यातं प्रथमाध्ययनं, साम्प्रतं द्वितीयमारभ्यते, अस्य चायमभिसंबन्धः, इहानन्तराध्ययने पुष्करिणीपौण्डरीकदृष्टान्तेन तीर्थिकाः सम्यङ्मोक्षोपायाभावात्कर्मणां बन्धकाः प्रतिपादिताः, सत्साधवश्च सम्यग्दर्शनादिमोक्षमार्गप्रवृत्तवान्मोचकाः सदुपदे४ शदानतोऽपरेषामपीति । तदिहापि यथा कर्म द्वादशभिः क्रियास्थानबध्यते यथा च त्रयोदशेन मुच्यते तदेतत्पूर्वोक्तमेव बन्धमोक्षयोः ४ प्रतिपादनं क्रियते, अनन्तरसूत्रेण चायं संबन्धः, तद्यथा-भिक्षुणा चरणकरणविदा कर्मक्षपणायोद्यतेन द्वादश क्रियास्थानानि
कर्मबन्धकारणानि सम्यक् परिहर्तव्यानि, तद्विपरीतानि च मोक्षसाधनानि आसेवितव्यानि, इत्यनेन संबन्धेनाऽऽयातस्यास्याध्ययनस्योपक्रमादीनि चखार्यनुयोगद्वाराणि भवन्ति, तत्राप्युपक्रमान्तर्गतोऽर्थाधिकारोऽयं, तद्यथा-कर्मणां बन्धोऽनेन प्रतिपाद्यते तद्वि-18 मोक्षश्चेति । नामनिष्पन्ने तु निक्षेपे क्रियास्थानमिति द्विपदं नाम, तत्रापि क्रियापदनिक्षेपार्थ प्रस्तावमारचयनियुक्तिकृदाहकिरियाओ भणियाओ किरियाठाणंति तेण अज्झयणं । अहिगारो पुण भणिओ बंधे तह मोक्खमग्गे य॥१६॥ दवे किरिएजणया य पयोगुवायकरणिज्जसमुदाणे । इरियावहसंमत्ते सम्मामिच्छा य मिच्छत्ते ॥ १६६ ॥ नाम ठवणा दविए खेत्तेऽद्धा उड्ड उवरती वसही । संजमपरगहजोहे अचलगणण संधणा भावे ॥ १६७॥
eatreeeeeeeeeeeeeeeeeeeek
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org