________________
जलमालकद्दमालं बहुविहवल्लिगहणं च पुक्खरिणिं । जंघाहि व बाहाहि व नावाहि व तं दुरवगाहं ॥ १६१ ॥ पउमं उल्लंघेत्तुं ओयरमाणस्स होइ वावत्ती। किं नत्थि से उवाओ जेणुल्लंघेज अविवन्नो ॥१२॥ विज्जा व देवकम्मं अहवा आगासिया विउवणया। पउमं उल्लंघेत्तुं न एस इणमो जिणक्खाओ ॥ १६३ ॥ सुद्धप्पओगविजा सिद्धा उ जिणस्स जाणणा विजा। भवियजणपोंडरीया उ जाए सिद्धिगतिमुवेंति ॥ १६४॥
इह 'उपमा' दृष्टान्तः 'पौण्डरीकेण' श्वेतशतपत्रेण कृतः, तस्बेहाभ्यर्हितखात, तस्यैव चोपचयेन सर्वावयवनिष्पत्तिर्यावद्विशिष्टोहो पायेनोद्धरणं, दान्तिकाधिकारस्तु पुनरत्र भणितः-अभिहितश्चक्रवर्त्यादेर्भव्यस्य जिनोपदेशेन सिद्धिरिति, तस्यैव पूज्यमानखाहै| दिति । पूज्यखमेव दर्शयितुमाह-'सुरमणुय' इत्यादि, सुरादिषु चतुर्गतिकेषु जन्तुषु मध्ये मनुजाश्चरित्रस्य-सर्वसंवररूपस्य प्रभवः-11
शक्ता वर्तन्ते, न शेषाः सुरादयः, तेष्वपि मनुजेषु महाजननेतारश्चक्रवर्त्यादयो वर्तन्ते, तेषु प्रबोधितेषु प्रधानानुगामिखात् इतरजनः सुप्रतिबोध एव भवतीत्यतोत्र चक्रवर्त्यादिना पौण्डरीककल्पेनाधिकार इति । पुनरप्यन्यथा मनुजप्राधान्यं दर्शयितुमाह'अविय हु' इत्यादि, गुरुकर्माणोऽपि मनुजा आसंकलितनरकायुषोऽपि-नरकगमनयोग्या अपि तेऽप्येवंभूतान्जिनोपदेशात्तेनैव भवेन | समस्तकर्मक्षयात् सिद्धिगामिनो भवन्तीति । तदेवं दृष्टान्तदाान्तिकयोस्तात्पर्यार्थ प्रदर्श्य दृष्टान्तभूतपौण्डरीकाऽधारायाः पुष्करिण्या दुरवगाहिलं सूत्रालापकोपात्तं नियुक्तिकृद्दर्शयितुमाह-'जलमाले' त्यादि, जलमालाम्-अत्यर्थप्रचुरजलां तथा कर्दममालाम्-अप्रतिष्ठिततलतया प्रभूततरपङ्कां तथा बहुविधवल्लिगहनां च पुष्करिणी जङ्घाभ्यां वा बाहुभ्यां वा नावा वा दुस्तरां पुष्करिणी, | दृष्ट्येति क्रियाध्याहारः, किंचान्यत्-'पउमं' इत्यादि, तन्मध्ये पद्मवरपौण्डरीकं गृहीखा समुत्तरतोऽवश्यं व्यापत्तिः प्राणानां भवेत,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org