SearchBrowseAboutContactDonate
Page Preview
Page 603
Loading...
Download File
Download File
Page Text
________________ सितं विरूपं हिंसितं विहिंसितं-न सम्यक् निर्जीवीकृतमित्यर्थः, तत्प्रतिषेधादविहिंसितं, निर्जीवमित्यर्थः, तदप्येषितम्-अन्वेषितं भिक्षाचर्याविधिना प्राप्तं, 'वैषिक मिति केवलसाधुवेषावाप्तं न पुनर्जात्याद्याजीवनतो निमित्तादिना वोत्पादितं, तदपि 'सामुदानिक' समुदानं-भिक्षासमूहस्तत्र भवं सामुदानिकम् , एतदुक्तं भवति-मधुकरवृत्त्यावाप्तं सर्वत्र स्तोकं स्तोकं गृहीतमित्यर्थः । तथा | प्रज्ञस्येदं प्राज्ञं-गीतार्थेनोपात्तमशनम्-आहारजातं, तदपि वेदनावैय्यावृत्त्यादिके कारणे सति, तत्रापि प्रमाणयुक्तं नातिमात्र, प्रमाण चेदम्-"अद्भुमसणस्स सर्वजणस्स कुज्जा दवस्स दो भाए । वाउपवियारणहा छब्भागं ऊणयं कुजा ॥१॥” इति । एतदपि न वर्ण|बलाद्यर्थ किंतु यावन्मात्रेणाहारेण देहः क्रियासु प्रवर्तते, तत्र दृष्टान्तद्वयमाह-तद्यथा-अक्षयोपाञ्जनम्-अभ्यङ्गो व्रणस्य च लेपनंप्रलेपस्तदुपमया आहारमाहरेत् , तथा चोक्तम्-"अभंगेण व सगडं ण तरइ विगई विणा उ जो साहू । सो रागदोसरहिओ मत्ताएँ विहीइ तं सेवे ॥१॥" एतदेव दर्शयति-संयमयात्रायां मात्रा संयमयात्रामात्रा यावत्याऽऽहारमात्रया संयमयात्रा प्रवर्तते सा तथा तया-संयमयात्रामात्रया वृत्तिर्यस्य तत्तथा, तदपि बिलप्रवेशपन्नगभूतेनात्मनाऽऽहारमाहरेत् , एतदुक्तं भवति-यथाहि बिलं प्रविशन् | तूर्ण प्रविशति एवं साधुनाऽप्याहारस्तत्स्वादमनास्वादयता शीघ्रं प्रवेशयितव्य इति, यदिवा सणेवाहारो लब्ध्वाऽस्वादमभ्यवहार्यत | इति । तदेव चाहारजातं दर्शयितुमाह-'अन्नं भक्तम् 'अन्नकाले' सूत्रार्थपौरुष्युत्तरकालं भिक्षाकाले प्राप्ते, पुरःपश्चात्कर्मपरिहृतं भवति यथोक्तभिक्षाटनेन, ग्रहणकालावाप्तं भैक्षं परिभोगकाले भुञ्जीत, तथा पानकं पानकाले, नातिवृषितो भुञ्जीत ना-18 १ अर्द्धमशनस्य सव्यंजनस्य कुर्याद्रवस्य द्वौ भागौ वातप्रविचारणार्थ षष्ठं भागमूनं कुर्यात् ॥१॥ २ अभ्यनेनेव शकटं न शक्नोति विकृति विनैव यः साधुः। स | रागद्वेषरहितो मात्रया विधिना तां सेवेत ॥१॥ 0393929999928292000003 Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy