SearchBrowseAboutContactDonate
Page Preview
Page 593
Loading...
Download File
Download File
Page Text
________________ शा इत्यादि, इह-असिन् जगति 'सन्ति' विद्यन्ते गृहस्थास्तथाविधाः श्रमणा ब्राह्मणाश्च सारम्भाः सपरिग्रहा इत्येवं ज्ञाखा स भिक्षुरेवम-di वधारयेद्-अहमेवात्र खल्वनारम्भोऽपरिग्रहश्च, ये चामी गृहस्थादयः सारम्भादिगुणयुक्तास्तदेतन्निश्रया-तदाश्रयेण ब्रह्मचर्य-श्रामण्यमाचरिष्यामोऽनारम्भा अपरिग्रहाः सन्तः, धर्माधारदेहप्रतिपालनार्थमाहारादिकृते सारम्भपरिग्रहगृहस्थनिश्रया प्रव्रज्यां करिप्याम इत्यर्थः । ननु च यदि तन्निश्रया पुनरपि विहर्तव्यं किमर्थं ते त्यज्यन्त इति जाताशङ्कः पृच्छति-'कस्य हेतोः' केन कारणेन ? तदेतद्गृहस्थश्रमणब्राह्मणत्यजनमभिहितमिति, आचार्योऽपि विदिताभिप्राय उत्तरं ददाति, यथा-'पूर्वम्' आदौ सारम्भपरिग्रहवं तेषां तथा 'पश्चादपि सर्वकालमपि गृहस्थाः सारम्भादिदोषदुष्टाः श्रमणाश्च केचन यथा 'पूर्व गृहस्थभावे सार-19 म्भाः सपरिग्रहास्तथा 'अपरस्मिन्नपि' प्रव्रज्यारम्भकाले तथाविधा एव त इति, अधुनोभयपदाव्यभिचारिखप्रतिपादनार्थमाह| यथा 'अपरम्' अपरस्मिन् प्रव्रज्याप्रतिपत्तिकाले तथा 'पूर्वमपि' गृहस्थभावादावपीति, यदिवा-कस्य हेतोस्तगृहस्थाद्याश्र यणं क्रियते यतिनेत्याह-यथा 'पूर्व प्रवज्यारम्भकाले सर्वमेव भिक्षादिकं गृहस्थायत्तं तथा पश्चादपि, अतः कथं नु नामानवद्या | वृत्तिर्भविष्यतीत्यतः साधुभिरनारम्भैः सारम्भाश्रयणं विधेयं । यथा चैते गृहस्थादयः सारम्भाः सपरिग्रहाश्च तथा प्रत्यक्षेणैवोप लभ्यन्त इति दर्शयितुमाह-'अंजू' इति व्यक्तमेतदेते गृहस्थादयो यदिवा-'अञ्जू' इति प्रगुणेन न्यायेन स्वरसप्रवृत्त्या सावद्यानुS|| ठानेभ्योऽनुपरताः परिग्रहारम्भाच सत्संयमानुष्ठानेन चानुपस्थिताः-सम्यगुत्थानमकृतवन्तो येऽपि कथञ्चिद्धर्मकरणायोस्थिता | स्तेऽप्युद्दिष्टभोजिखात्सावद्यानुष्ठानपरखाच गृहस्थभावानुष्ठानमनतिवर्तमानाः पुनरपि तादृशा एव-गृहस्थकल्पा एवेति ।। साम्प्रतमु॥ पसंहरति-य इमे-गृहस्थादयस्ते 'द्विधाऽपि' सारम्भसपरिग्रहखाभ्यामुभाभ्यामपि पापान्युपाददते यदिवा रागद्वेषाभ्यामुभा Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy