________________
P
सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः
॥२९६॥
भ्यामपि यदिवा गृहस्थप्रव्रज्यापर्यायाभ्यामुभाभ्यां पापानि कुर्वत इत्येवं 'संख्याय' परिज्ञाय 'द्वयोरप्यन्तयोः' आरम्भपरि- १पौण्डरीग्रहयो रागद्वेषयोर्वा 'अदृश्यमानः अनुपलभ्यमानो यदिवा रागद्वेषयोर्यावन्तौ-अभावौ तयोरादिश्यमानो-रागद्वेषाभाववृत्तिले- काध्य० नापदिश्यमानः सन्नित्येवंभूतो 'भिक्षुः' भिक्षणशीलोऽनवद्याहारभोजी सत्संयमानुष्ठाने 'रीयेत' प्रवर्तेत, एतदुक्तं भवति य इमे ||
पञ्चमस्थ ज्ञातिसंयोगा यश्चायं धनधान्यादिकः परिग्रहो यच्चेदं हस्तपादाद्यवयवयुक्तं शरीरकं यच्च तदायुबलवर्णादिकं तत्सर्वमशाश्वतमनि-18 साधोर्लोत्यं स्वप्नेन्द्रजालसदृशमसारं, गृहस्थश्रमणब्राह्मणाश्च सारम्भाः सपरिग्रहाश्च, एतत्सर्वं परिज्ञाय सत्संयमानुष्ठाने भिक्षू रीयेतेति स्थि-1 कनिश्रा तम् ॥ स पुनरप्यहमधिकृतमेवार्थ विशेषिततरं सोपपत्तिकं ब्रवीमीति-तत्र प्रज्ञापकापेक्षया प्राच्यादिकाया दिशोऽन्यतरस्याः समायातः स भिक्षुर्द्वयोरप्यन्तयोरदृश्यमानतया सत्संयमे रीयमाणः सन् 'एवम् अनन्तरोक्तेन प्रकारेण ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया प्रत्याख्याय च परिज्ञातकर्मा भवति । पुनरपि 'एव'मिति परिज्ञातकर्मखाद्यपेतकर्मा भवति-अपूर्वस्यावन्धको भवतीत्यर्थः, पुनरेवमित्यबन्धकतया योगनिरोधोपायतः पूर्वोपचितस्य कर्मणो विशेषेणान्तकारको भवतीति, एतच्च तीर्थकरगणधरादिभितिज्ञेयैराख्यातमिति ॥ कथं पुनः प्राणातिपातविरतिव्रतादिव्यवस्थितस्य कर्मापगमो भवतीत्युक्तं ?, यतस्तत्प्रवृत्तस्यात्मौपम्येन प्राणिनां पीडोत्पद्यते, तया च कर्मबन्ध इत्येवं सर्व मनस्याधायाहतत्थ खलु भगवता छज्जीवनिकाय हेऊ पण्णत्ता, तंजहा-पुढवीकाए जाव तसकाए, से जहाणामए मम
॥२९॥ अस्सायं दंडेण वा अट्ठीण वा मुट्ठीण वा लेलूण वा कवालेण वा आउहिजमाणस्स वा हम्ममाणस्स वा १०येत तिष्ठेत प्र० । २ ०काइया जाव तसकाइया प्र० ।
Breesesecseeeeeeeeeee
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org