________________
| यदपीदं शरीरमुदारं-शोभनावयवरूपोपेतं विशिष्टाहारोपचितम् , एतदपि मयाऽवश्यं प्रतिक्षणं विशीर्यमाणमायुषः क्षये विप्रहातव्यं भविष्यतीत्येतदवगम्य शरीरानित्यतया संसारासारतां 'संख्याय' अवगम्य परित्यक्तसमस्तगृहप्रपञ्चो निष्किञ्चनतामुपगम्य स भिक्षुर्देहदीर्घसंयमयात्रार्थ भिक्षाचर्यायां समुत्थितः सन् द्विधा लोकं जानीयादिति । तदेव लोकद्वैविध्यं दर्शयितुमाह-18 | तद्यथा-जीवाश्च-प्राणधारणलक्षणास्तद्विपरीताश्चाजीवा-धर्माधर्माकाशादयः, तत्र तस्य भिक्षोरहिंसाप्रसिद्धये जीवान् विभागेन दर्शयितुमाह-जीवा अप्युपयोगलक्षणा द्विधा, तद्यथा-त्रस्यन्तीति त्रसा-द्वीन्द्रियादयः तथा तिष्ठन्तीति स्थावरा:-पृथिवीकायादयः। तेऽपि सूक्ष्मवादरपर्याप्तकापर्याप्तकादिभेदेन बहुधा द्रष्टव्याः, एतेषु चोपरि बहुधा व्यापारः प्रवर्तते ॥ साम्प्रतं तदुपमर्दकन्यापारकर्तृन् दर्शयन्नाह
इह खलु गारत्था सारंभा सपरिग्गहा, संगतिया समणा माहणावि सारंभा सपरिग्गहा, जे इमे तसा थावरा पाणा ते सयं समारभंति अन्नेणवि समारंभावेंति अण्णंपि समारभंतं समणुजाणंति ॥ इह खलु गारत्था सारंभा सपरिग्गहा, संतेगतिया समणा माहणावि सारंभा सपरिग्गहा, जे इमे कामभोगा सचित्ता वा अचित्ता वा ते सयं परिगिण्हंति अन्नेणवि परिगिण्हावेंति अन्नंपि परिगिण्हतं समणुजाणंति ॥ इह खलु गारत्था सारंभा सपरिग्गहा, संतेगतिया समणा माहणावि सारंभा सपरिग्गहा, अहं खलु अणारंभे अपरिग्गहे, जे खलु गारत्था सारंभा सपरिग्गहा, संतेगतिया समणा माहणावि सारंभा सपरिग्गहा, एतेसिं चेव निस्साए बंभचेरवासं वसिस्सामो, कस्स णं तं हे?, जहा पुवं तहा अवरं जहा अवरं
dain Education International
For Personal & Private Use Only
www.jainelibrary.org