________________
सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाङ्कीयावृत्तिः
॥२९४॥
यिनो विदितवेद्या भवन्तीति । साम्प्रतमन्येन प्रकारेण वैराग्योत्पत्तिकारणमाह-स 'मेधावी' सश्रुतिक 'एतद्' वक्ष्यमाणं जानीयात्, तद्यथा - बाह्यतरमेतत् यज्ज्ञातिसंबन्धनम्, इदमेवान्यदुपनीततरम् - आसन्नतरं, शरीरावयवानां भिन्नज्ञातिभ्य आसन्नत रत्वात्, तद्यथा - हस्तौ ममाशोकपल्लवसदृशौ तथा भुजौ करिकराकारौ परपुरंजयौ प्रणयिजनमनोरथपूरकौ शत्रुशतजीवितान्तकरौ यथा मम न तथाऽन्यस्य कस्यापीत्येवं पादावपि पद्मगर्भसुकुमारावित्यादि सुगमं, यावत्स्पर्शाः स्पर्शनेन्द्रियं 'ममाति' ममीकरोति, यादृशे न तादृगन्यस्येति भावः, एतच्च हस्तपादादिकं स्पर्शनेन्द्रियपर्यवसानं शरीरावयवसंबन्धिवेन विवक्षितं यत्किमपि वयसः परिणामात्- कालकृतावस्थाविशेषात् 'परिजूरइत्ति परिजीर्यते जीर्णतां याति प्रतिक्षणं विशरारुतां याति तसिंव प्रतिसमयं विशीर्यति शरीरे प्रतिसमयमसौ प्राणी एतस्माद्भश्यति, तद्यथा - आयुषः पूर्वनिबद्धात्समयादिहान्याऽपचीयते, आवीचीमर - न प्रतिसमयं मरणाभ्युपगमात्, तथा बलादपचीयते, तथाहि - यौवनावस्थायाश्रयवमाने शरीर के प्रतिक्षणं शिथिलीभवत्सु संधिबन्धनेषु बलादवश्यं भ्रश्यते, तथा वर्णाच्चचश्छायातोऽपचीयते, अत्र च सनत्कुमारदृष्टान्तो वाच्यः, तथा जीर्यति शरीरे श्रोत्रादीनीन्द्रियाणि न सम्यक् स्वविषयं परिच्छेत्तुमलं, तथा चोक्तम् - "बाल्यं वृद्धिर्वयो मेधा वक्चक्षुः शुक्रविक्रमाः । दशकेषु निवर्तन्ते, मनः सर्वेन्द्रियाणि च ॥१॥" तथा च विशिष्टवयोहान्या 'सुसंधितः' सुबद्धः संधिः - जानुकूर्परादिको 'विसंधिर्भवति' विगलितबन्धनो भवतीत्यर्थः, तथा वलितरङ्गाकुलं सर्वतः शिराजालवेष्टितमात्मनोऽपि शरीरमिदमुद्वेगकृद्भवति किंपुनरन्येषां ?, तथा चोक्तम्- "वलिसंततमस्थिशेषितं, शिथिलस्नायुवृतं कडेवरम् । स्वयमेव पुमान् जुगुप्सते, किमु कान्ताः कमनीयविग्रहाः १ ॥ | १ || " | तथा कृष्णाः केशा वयःपरिणामजलप्रक्षालिता धवलतां प्रतिपद्यन्ते, तदेवं वयःपरिणामापादितसन्मतिरेतद्भावयेत्, तद्यथा -
Jain Education International
For Personal & Private Use Only
१ पुण्डरीकाध्य० भिक्षुःपञ्च
मः वैराग्य
स्वरूपं
॥२९४॥
www.jainelibrary.org