SearchBrowseAboutContactDonate
Page Preview
Page 587
Loading...
Download File
Download File
Page Text
________________ Re09002929ceaee000000000000 दुःखोपादानमत्यन्तदुःखप्रतिपादनार्थ सुखलेशस्यापि परिहारार्थ च, 'नो' नैव शुभः, अशुभकर्मविपाकापादितखादिति । अत्र |च यदुक्तमपि पुनरुच्यते तदत्यादरख्यापनार्थ तद्विशेषप्रतिपादनार्थ चेति, तदेवंभूतं दुःखं रोगातकं वा 'हन्त' इति खेदे भया त्रातारो यूयं क्षेत्रवास्तुहिरण्यसुवर्णधनधान्यादिकाः परिग्रहविशेषाः शब्दादयो वा विषयाः तथा हे भगवन्तः! कामभोगा यूयं | मया पालिताः परिगृहीताश्च ततो यूयमपीदं दुःखं रोगातकं वा 'परियाइयह'त्ति विभागशः परिगृह्णीत यूयम् , अत्यन्तपीड| योद्विग्नः पुनस्तदेव दुःखं रोगात वा विशेषणद्वारेणोच्चारयति-अनिष्टमप्रियमकान्तमशुभममनोज्ञममनाग्भूतमवनामकं वा दुःखमेवैतत् ततोऽशुभमित्येवंभूतं ममोत्पन्नं यूयं विभजत अहमनेनातीव दुःखामीति दुःखित इत्यादि पूर्ववन्नेयमिति, अतोऽमुष्मान्मामन्यतरमाहुःखाद्रोगातङ्काद्वा प्रतिमोचयत यूपम् , अनिष्टादिविशेषणानि तु पूर्ववयाख्येयानि । प्रथमं प्रथमान्तानि पुनर्द्वितीयान्तानि साम्प्रतं पञ्चम्यन्तानीति । न चायमर्थस्तेन दुःखितेन 'एवमेवेति यथा प्रार्थितस्तथैव लब्धपूर्वो भवति, इदमुक्तं भवतिन हि ते क्षेत्रादयः परिग्रहविशेषा नापि शब्दादयः कामभोगास्तं दुःखितं दुःखाद्विमोचयन्तीति । एतदेव लेशतो दर्शयति-'इह'। अस्मिन् खलु वाक्यालङ्कारे ते कामभोगा अत्यन्तमभ्यस्ता न 'तस्य' दुःखितस्य त्राणाय शरणाय वा भवन्ति, सुलालितानामपि कामभोगानां पर्यवसानं दर्शयितुमाह-'पुरिसो वा' इत्यादि, पुरिशयनात्पुरुषः-प्राणी 'एकदा व्याध्युत्पत्तिकाले जराजीणेकाले | वाऽन्यस्मिन्वा राजाद्युपद्रवे 'तान्' कामभोगान् परित्यजति, स वा पुरुषो द्रव्याद्यभावे तैः कामभोगैर्विषयोन्मुखोऽपि त्यज्यते, स चैवमवधारयति-'अन्ये' मत्तो भिन्नाः खल्वमी कामभोगाः, तेभ्यश्चान्योऽहमस्मि । तदेवं व्यवस्थिते "किमिति वयं पुनरेतेप्वनित्येषु परभूतेष्वन्येषु कामभोगेषु मृच्छा कुर्म" इत्येवं केचन महापुरुषाः 'परिसंख्याय' सम्यग् ज्ञाखा कामभोगान् वयं 'विप्र dan Education International For Personal & Private Use Only www.janelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy