________________
सूत्रकृताङ्गे
२ श्रुतस्क न्धे शीलाङ्कीयावृत्तिः
॥२९२ ॥
च' कामभोगाङ्गं धनधान्यहिरण्यादिकं विविधं प्रकर्षेण 'हित्वा' त्यक्त्वा भिक्षाचर्यायां सम्यगुत्थिताः, असतो वा ज्ञातीनुपकरणं च विग्रहाय भिक्षाचर्यायामेके केचनापगतखजनविभवाः समुत्थिताः ॥ ये ते पूर्वोक्तविशेषणविशिष्टा भिक्षाचर्यायामभ्युद्यताः पूर्वमेव - प्रव्रज्याग्रहणकाल एव तैरेतज्ज्ञातं भवति, तद्यथा - 'इह' जगति खलुर्वाक्यालङ्कारे अन्यदन्यद्वस्तू द्दिश्य ममैतद्भोगाय भविष्यतीति, एवमसौ प्रव्रज्यां प्रतिपन्नः प्रविवजिषुर्वा 'प्रवेदयति' जानात्येवं परिच्छिनत्ति, तद्यथा - 'क्षेत्रं' शालिक्षेत्रादिकं 'वास्तु' खातोच्छ्रितादिकं 'हिरण्यं' धर्मलाभादिकं 'सुवर्ण' कनकं 'धनं' गोमहिष्यादिकं 'धान्यं' शालिगोधूमादिकं 'कांस्य' | कांस्यपात्रादिकं तथा 'विपुलानि' प्रभूततराणि धनकनकरत्नमणिमौक्तिकानि 'शंखशिल' ति मुक्तशैलादिकाः शिलाः 'प्रवाल' विद्रुमं, यदिवा - 'सिलप्पवालं' ति श्रिया युक्तं प्रवालं श्रीप्रवालं वर्णादिगुणोपेतं तथा 'रत्तरयणं' ति रक्तरलं - पद्मरागादिकं तथा 'सत्सारं ' शोभनसारमित्यर्थः शूलमण्यादिकं, तथा 'खापतेयं' रिक्थं द्रव्यजातं सर्वमेतत्पूर्वोक्तं 'मे' ममोपभोगाय भविष्यति, तथा 'शब्दा' वेण्वादयो 'रूपाणि' अङ्गनादीनि 'गन्धाः ' कोष्ठपुटादयः 'रसा' मधुरादयः मांसरसादयो वा 'स्पर्श' मृद्रादयः, एते सर्वेऽपि खलु मे कामभोगाः, अहमप्येषां योगक्षेमार्थं प्रभविष्यामीत्येवं संप्रधार्य ॥ स मेधावी पूर्वमेवात्मानं विजानीयाद्एवं पर्यालोचयेत्, तद्यथा - 'इह' संसारे खलुशब्दोऽवधारणे, इहैव - अस्मिन्नेव जन्मनि मनुष्यभवे वा ममान्यतरदुःखं - शिरोवेद| नादिकं आतङ्को वाऽऽशु जीवितापहारी शूलादिकः समुत्पद्यते, तमेव विशिनष्टि-अनिष्टः अकान्तः अप्रियः अशुभोऽमनोज्ञोऽवनामयतीत्यवनाम: - पीडाविशेषकारी दुःखरूपो यदिवा न मनागमनाक 'मे' मम नितरामित्यर्थः दुःखयतीति दुःखं, पुनरपि १ ० द्रोगाय प्र० । २ विषयासक्तः पुरुषो मनुते इति शेषः । ३ धर्मलातादिकं प्र० । ४ अघटितरूप्यसुवर्णमितिपर्यायः प्राचीनपुस्तके | ५ शुद्धं प्र० ।
Jain Education International
For Personal & Private Use Only
৫,,৩১৬,,৩১৬৫৫
१ पुण्डरी
काध्य० •
भिक्षुःपञ्चमः वैराग्यस्वरूपं
॥२९२॥
www.jainelibrary.org