________________
सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः
॥२८८॥
___ अथ तृतीयपुरुषादनन्तरमपरश्चतुर्थः पुरुष एव पुरुषजातो नियतिवादिक आख्यायते-प्रतिपाद्यते, स चैवमाह-नात्र कश्चि-1 अण्डरीकालेश्वरादिकः कारणं नापि पुरुषकारः, समानक्रियाणामपि कस्यचिदेव नियतिवलादर्थसिद्धेः, अतो नियतिरेव कारणम् , उक्त काध्यनिच-"प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः, सोऽवश्यं भवति नृणां शुभोऽशुभो वा । भूतानां महति कृतेऽपि हि प्रयत्ने, नाभाव्यं भवति | यतिवादी न भाविनोऽस्ति नाशः ॥१॥” इत्यादि । 'इह खलु पाईणं' इत्यादिको ग्रन्थः प्राग्वन्नेतव्यो यावदेष धर्मो-नियतिवादरूपः स्वाख्यातः सुप्रज्ञप्तो भवतीति । स च नियतिवादी स्वाभ्युपगम दर्शयितुमाह-'इह खलु दुवे पुरिसा भवंती'त्यादि, 'इह' असिन् जगति खलुशब्दो वाक्यालङ्कारे, द्वौ पुरुषौ भवतः, तत्रैकः क्रियामाख्याति, क्रिया हि देशादेशान्तरावाप्तिलक्षणा || | पुरुषस्य भवति, न कालेश्वरादिना चोदितस्य भवति, अपितु नियतिप्रेरितस्य, एवमक्रियाऽपि । यदि तावस्वतत्रौ क्रियावादमक्रि-18| यावादं च समाश्रितौ तौ द्वावपि नियत्यधीनत्वात्तुल्यौ, यदि पुनस्तौ स्वतत्रौ भवतस्ततः क्रियाक्रियाभेदान्न तुल्यौ स्यातामिति, अत एकार्थावेककारणापन्नत्वादिति, नियतिवशेनैव तौ नियतिवादमनियतिवादं चाश्रिताविति भावः । उपलक्षणार्थत्वाचास्यान्योऽपि यः कश्चित्कालेश्वरादिपक्षान्तरमाश्रयति सोऽपि नियतिचोदित एव द्रष्टव्य इति ।। साम्प्रतं नियतिवादी परमतोद्विभाव-|| विषयाऽऽह-'बाल' अज्ञः पुरुषकारकालेश्वरवादीत्यादिका, पुनरिति विशेषणार्थः, तदेव दर्शयति-'एवं' मिति वक्ष्यमाणनीत्याश 'विप्रतिवेदयति' जानीते कारणमापन्नः सुखदुःखयोः सुकृतदुष्कृतयोर्वा स्वकृत एव पुरुषकारः कालेश्वरादिवों कारणमित्येवम
॥२८८॥ १.यत्त० प्र० । २ पुनरपि नियतिवाद्येव खपक्षमन्यथा समर्थयितुमाह प्र०।३ युक्त्यन्तरोपन्यासार्थः प्र०। ४ नः, कारणमुद्दिश्य वक्ष्यमाणाच कारणात् | नियतिरेव की न पुरुषकारादिकमिति भावः, तदेव नियतिवादसमर्थनकारणं दर्शयति, तद्यथा-योऽहं. प्र.।
Jain Education International
For Personal & Private Use Only
wwww.jainelibrary.org