________________
वदयति''
eeeeeeeeeeeeeeeeeee
भ्युपपन्नो नान्यन्नियत्यादिकं कारणमस्तीति, तदेवाह-तद्यथा-योऽहमसि 'दुक्खामिति शारीरं मानसं दुःखमनुभवामि तथा शोचामि-इष्टानिष्टवियोगसंप्रयोगकृतं शोकमनुभवामि, तथा 'तिप्पामिति शारीरबलं क्षरामि, तथा 'पीडामित्ति सबाह्याभ्यन्तरया पीडया पीडामनुभवामि, तथा 'परितप्पामिचि परितापमनुभवामि, तथा 'जूरामित्ति अनार्यकर्मणि प्रवृत्तमात्मानं गर्हामि, अनर्थावाप्तौ विमूरयामीत्यर्थः, तदेवं यदहं दुःखमनुभवामि तदहमेवाकार्ष, परपीडया कृतवानसीत्यर्थः, तथा परोऽपि | यहुःखशोकादिकमनुभवति मयि वाऽऽपादयति तत्स्वयमेव कृतमिति, तदेव दर्शयति-'परो वेत्यादि, तथा परोपि यन्मां दुःख| यति शोचयतीत्यादि प्राग्वनेयं तत्सर्वमहमकार्षमित्येवं द्वाभ्यामाकलितोऽज्ञो वा बाल एवं 'विप्रतिवेदयति' जानीते खकारणं | वा परकारणं वा सर्व दुःखादि पुरुषकारकृतमिति जानीते एवं पुरुषकारकारणमापन्न इति ॥ तदेवं नियतिवादी पुरुषकारकारणवादिनो बालखमापाद्य स्वमतमाह-मेधा-मर्यादा प्रज्ञा वा तद्वान् मेधावी-नियतिवादपक्षाश्रयी एवं विप्रतिवेदयति-जानीते, कारणमापन्न इति नियतिरेव कारणं सु(दुः)खाद्यनुभवस्य, तद्यथा-योऽहममि दुःखयामि शोचयामि तथा 'तिप्पामित्ति |क्षरामि 'पीडामिति पीडामनुभवामि 'परितप्पामिति परितापमनुभवामि, नाहमेवमकार्ष दुःखम् , अपि तु नियतित एवैतन्मय्यागतं, न पुरुषकारादिकृतं, यतो न हि कस्यचिदात्माऽनिष्टो येनानिष्टा दुःखोत्पादादिकाः क्रियाः समारभते, नियत्यैवासाव| निच्छन्नपि तत्कार्यते येन दुःखपरम्पराभाग्भवति, कारणमापन्न इति परेऽप्येवमेव योजनीयम् । एवं सति नियतिवादी मेधावीति सोल्लण्ठमेतत, स किल नियतिवादी दृष्ट पुरुषकारं परित्यज्यादृष्टनियतिवादाश्रयेण महाविवेकीत्येवमुल्लण्ठ्यते, खकारणं परकारणं च दुःखादिकमनुभवनियतिकृतमेतदेवं विप्रतिवेदयति-जानाति नात्मकृतं नियतिकारणमापनं, कारणं चात्रैकस्सासदनुष्ठानरतस्यापि
ति नियामतमाह मेधा-मामति जानीते एवं प्राकलितोऽझो वा
अमनुभवामि खाद्यनुभवयवार मेधावीन इति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org