SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ क्षणिकस्य विचाराक्षमत्वात्परिणामानित्यपक्ष एव ज्यायानिति । एवञ्च सत्यात्मा परिणामी ज्ञानाधारो भवान्तरयायी भूतेभ्यः कथञ्चिदन्य एव शरीरेण सहान्योऽन्यानुवेधादनन्योऽपि, तथा सहेतुकोऽपि नारकतिर्यभमनुष्यामरभवोपादानकर्मणा तथा तथा विक्रियमाणखात् पर्यायरूपतयेति, तथाऽऽत्मस्वरूपाप्रच्युतेनित्यत्वादहेतुकोऽपीति । आत्मनश्च शरीरव्यतिरिक्तस्य साधितत्वात 'चतुर्द्धातुकमानं शरीरमेवेदमित्येतदुन्मत्तप्रलपितमपकर्णयितव्यमित्यलं प्रसङ्गेनेति ॥१८॥ साम्प्रतं पञ्चभूतात्माऽद्वैततज्जीवतच्छ-श रीराकारकात्मषष्ठक्षणिकपश्चस्कन्धवादिनामफलवादित्वं वक्तुकामः सूत्रकारस्तेषां खदर्शनफलाभ्युपगमं दर्शयितुमाह|| अगारमावसंतावि, अरण्णा वावि पव्वया । इमं दरिसणमावण्णा, सबदुक्खा विमुच्चई ॥१९॥ 'अगारं' गृहं तद् 'आवसन्तः' तसिंस्तिष्ठन्तो गृहस्था इत्यर्थः, 'आरण्या वा' तापसादयः, 'प्रव्रजिताश्च' शाक्यादयः, अपिः संभावने, इदं ते संभावयन्ति यथा-'इदम्' असदीयं दर्शनम् 'आपन्ना' आश्रिताः सर्वदुःखेभ्यो विमुच्यन्ते, आर्षत्वा| देकवचनं सूत्रे कृतं, तथाहि-पञ्चभूततज्जीवतच्छरीरवादिनामयमाशयः-यथेदमसदीयं दर्शनं ये समाश्रितास्ते गृहस्थाः सन्तः सर्वेभ्यः शिरस्तुण्डमुण्डनदण्डाजिनजटाकाषायचीवरधारणकेशोल्लञ्चननाम्यतपश्चरणकायक्लेशरूपेभ्यो दुःखेभ्यो मुच्यन्ते, तथा चोचुः-"तपांसि यातनाश्चित्राः, संयमो भोगवञ्चनम् । अग्निहोत्रादिकं कर्म, बालक्रीडेव लक्ष्यत ॥१॥" इति, सांख्यादयस्तु 1 मोक्षवादिन एवं संभावयन्ति-यथा येऽसदीयं दर्शनमकर्तृवात्माऽद्वैतपञ्चस्कन्धादिप्रतिपादकमापन्नाः प्रव्रजितास्ते सर्वेभ्यो | १ दगसोयरिआदओ चू० तच्चणिआणं उबासगाविवझंति आरोप्पगावि अणागमणधम्मिणोय देवा तओ चेव णिधंति । Jain Educationa l For Personal & Private Use Only brary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy