________________
गमात्प्रधानात्मनोरेव विद्यमानखान्महदहङ्कारादेरनुत्पत्तिरेव, एकखाच प्रकृतेरेकात्मवियोगे सति सर्वात्मनां वियोगःसाद् एकसंबन्धे | | वा सर्वात्मनां प्रकृतिसंयोगो न पुनः कस्यचित्तत्त्वपरिज्ञानात् प्रकृतिवियोगे मोक्षोऽपरस्य तु विपर्ययात्संसार इति, एवं जगद्वैचित्र्यं न स्याद् , आत्मनश्चाकर्तृखे तत्कृतौ बन्धमोक्षौ न स्याताम् , एतच्च दृष्टेष्टबाधितं । नापि कारणे सत्कार्यवादो, युक्तिभिरनुपपद्यमानखात् , तथाहि-मृत्पिण्डावस्थायां घटोत्पत्तेः प्राग्घटसंबन्धिनां कर्मगुणव्यपदेशानामभावात, घटार्थिनां च क्रियासु प्रवृतेर्न कारणे कार्यमिति ॥ लोकायतिकस्यापि भूतानामचेतनखात्कर्तृखानुपपत्तिः, कायाकारपरिणतानां चैतन्याभिव्यक्त्यभ्युपगमे
च मरणाभावप्रसङ्गः स्यात् , तस्मान्न पञ्चभूतात्मकं जगदिति स्थितम् । अपिच-इदं ज्ञानं खसंवित्तिसिद्धमात्मानं धर्मिणमुपस्थाप18 यति, नच भूतान्येव धर्मिलेन परिकल्पयितुं युज्यन्ते, तेषामचेतनत्वाद्, अथ कायाकारपरिणतानां चैतन्यं धर्मो भविष्यतीत्येत-1॥ | दप्ययुक्तं, यतः कायाकारपरिणाम एव तेषामात्मानमधिष्ठातारमन्तरेण न भवितुमर्हति, निर्हेतुकत्वप्रसङ्गात् , निर्हेतुकत्वे च नित्यं सत्त्वमसत्त्वं वा स्यादिति । तदेवं भूतव्यतिरिक्त आत्मा, तस्मिंश्च सति सदसदनुष्ठानतः पुण्यपापे, ततश्च जगद्वैचित्र्यसिद्धिरिति । एवं च व्यवस्थिते तेऽनार्याः सांख्या लोकायतिका वा पञ्चमहाभूतप्रधानाभ्युपगमेन विप्रतिपन्ना यत्कुर्युस्तदर्शयितुमाह-'तं सद्द-1 हमाणा' इत्यादि, 'तम्' आत्मीयमभ्युपगमं पूर्वोक्तया नीत्या नियुक्तिकमपि श्रद्दधानाः पञ्चमहाभूतात्मकप्रधानस्य सर्वकार्याणि || उपगच्छन्ति, तदेव च सत्यमित्येवं 'प्रतियन्तः प्रतिपद्यमानास्तदेव चात्मीयमभ्युपगमं रोचयन्तस्तद्धर्मस्याख्यातारं प्रशंसयन्तः, तद्यथा-वाख्यातो भवता धर्मोऽस्माकमयमत्यन्तमभिप्रेत इत्येवं ते तदध्यवसायाः-सावद्यानुष्ठानेनाप्यधर्मो न भवतीत्यध्यवसायिनः
Decemeseperseceaeeeemedeceaee
dain Education International
For Personal & Private Use Only
www.jainelibrary.org