________________
द्विस्रसापरिणामेन निष्पन्नत्वात्, तथा न घटवत्कृत्रिमाणि, कर्तृकरणव्यापारसाध्यानि न भवन्तीत्यर्थः, तथा परव्यापाराभावतया 'नो' नैव कृतकानि, अपेक्षितपरव्यापारः स्वभाव निष्पत्तौ भावः कृतक इति व्यपदिश्यते, तानि च विस्रसापरिणामेन निष्पनखात्कृत कव्यपदेशभाञ्जि न भवन्ति, तथा अनाद्यनिधनानि, अवन्ध्यानि - अवश्य कार्यकर्तृणि, तथा न विद्यते 'पुरोहितः' कार्य प्रति प्रवर्तयिता येषां तान्यपुरोहितानि, स्वतन्त्राणि स्वकार्यकर्तृत्वं प्रत्यपरनिरपेक्षाणि, शाश्वतानि नित्यानि वा 'न कदाचिदनीदृशं जगदिति वचनात्, तदेवंभूतानि पञ्च महाभूतान्यात्मषष्ठानि पुनरेके एवमाहुः, आत्मा चाकिञ्चित्करः सांख्यानां लो| कायतिकानां पुनः कायाकारपरिणतान्येव भूतान्यभिव्यक्त चेतनानि आत्मव्यपदेशं भजन्त इति । तदेवं सांख्याभिप्रायेण 'सतो' | विद्यमानस्य प्रधानादेर्नास्ति 'विनाशः' अत्यन्ताभावरूपो नाप्यसतः शशविषाणादेः संभवः- समुत्पत्तिरस्ति, कारणे कार्यस्य विद्यमानस्यैवोत्पत्तिरिष्टा, नासतः, सर्वस्मात्सर्वस्योत्पत्तिप्रसङ्गात्, तथा चोक्तम् – “नासतो जायते भावो नाभावो जायते सतः” इत्यादि, तथा असतः खरविषाणादेरकरणादुपादानकारणस्य च मृत्पिण्डादेर्घटार्थिनोपादानादित्यादिभ्यश्च हेतुभ्यः कारणे सत्कार्यवादः ।। तदेवमेतावानेव तावदिति सांख्यो लोकायतिको वा माध्यस्थ्यमवलम्बमान एवमाह, तद्यथा अस्मद्युक्तिभिर्विचार्यमाणस्ता| वदेतावानेव जीवकायो यदुत पञ्च महाभूतानि, यतस्तान्येव सांख्याभिप्रायेण प्रधानरूपतामापन्नानि सत्त्वादिगुणोपचयापचयाभ्यां | सर्वकार्यकर्तृणि, आत्मा चाकिञ्चित्करत्वादसत्कल्प एव, लोकायतस्य तु स नास्त्येवेत्यत 'एतावानेव' भूतमात्र एव जीवकायः, | तथा एतावानेव - भूतास्तित्वमात्र एवास्तिकायो नापरः कश्चित्तीर्थिकाभिप्रेतः पदार्थोऽस्तीति । तथा एतावानेव सर्वलोको यदुत पश्च | महाभूतानि प्रधानरूपापन्नानि, आत्मा चाकर्ता निर्गुणः सांख्यस्य, लोकायतिकस्य तु पञ्चभूतात्मक एव लोकः, तदतिरिक्तस्यापरस्य
|
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org