SearchBrowseAboutContactDonate
Page Preview
Page 565
Loading...
Download File
Download File
Page Text
________________ कम्मसमारंभेहिं विरूवरूवाहं कामभोगाई समारभंति भोयणाए, एवमेव ते अणारिया विप्पडिवन्ना तं सद्दहमाणा तं पत्तियमाणा जाव इति, ते णो हवाए णो पाराए, अंतरा कामभोगेसु विसण्णा, दोघे पुरिसजाए पंचमहन्भूतिएन्ति आहिए ॥ सूत्रं १० ॥ अथशब्द आनन्तर्यार्थे, प्रथमपुरुषानन्तरमपरो द्वितीयः पुरुष एव पुरुषजातः पश्चभिः (भूतैः ) पृथिव्यप्तेजोवाय्वाकाशाख्यैश्चरति पञ्चभूतिकः पञ्च वा भूतानि अभ्युपगमद्वारेण विद्यन्ते यस्य स पश्चभूतिको, मत्रर्थीयष्ठक्, स च सांख्यमतावलम्बी आत्मनस्तृणकुब्जीकरणेऽप्यसामर्थ्याभ्युपगमात् भूतात्मिकायाश्च प्रकृतेः सर्वत्र कर्त्तृखाभ्युपगमात् द्रष्टव्यो, लोकायतमतावलम्बी वा नास्तिको भूतव्यतिरिक्तनास्तिखाभ्युपगमादाख्यायते, प्रथमपुरुषादनन्तरमयं पञ्चभूतात्मवाद्यभिधीयते चेति । अत्र च प्रथमपुरुषगमेन ' इह खलु पाइणं वेत्यादिको ग्रन्थः सुपण्णत्ते भवतीत्येतत्पर्यवसानोऽवगन्तव्य इति ॥ सांप्रतं सांख्यस्य लोकाय| तिकस्य चाभ्युपगमं दर्शयितुमाह- 'इह' अस्मिन् संसारे द्वितीयपुरुषवक्तव्यताधिकारे वा, खलुशब्दो वाक्यालङ्कारे, पृथिव्यादीनि पञ्च महाभूतानि विद्यन्ते, महान्ति च तानि भूतानि च महाभूतानि तेषां च सर्वव्यापितयाऽभ्युपगमात् महत्त्वं, तानि च पञ्चैव, अपरस्य षष्ठस्य क्रियाकर्तृलेनानभ्युपगमात्, यैर्हि पञ्चभिर्भूतैरप्युपगम्यमानैः 'नः' अस्माकं क्रिया - परिस्पन्दात्मिका चेष्टारूपा | क्रियते अक्रिया वा निर्व्यापाररूपतया स्थितिरूपा क्रियते, तथाहि तेषां दर्शनं सत्त्वरजस्तमोरूपा प्रकृतिर्भूतात्मभूताः सर्वा | अर्थक्रियाः करोति, पुरुषः केवलमुपभुङ्क्ते, 'बुद्ध्यध्यवसितमर्थं पुरुषचेतयते' इति वचनात् बुद्धिश्च प्रकृतिरेव तद्विकारत्वात्, तस्याश्च प्रकृतेर्भूतात्मिकायाः सत्त्वरजस्तमसां चयापचयाभ्यां क्रियाक्रिये स्यातामितिकृत्वा भूतेभ्य एव क्रियादीनि प्रवर्तन्ते, तद्य Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy