SearchBrowseAboutContactDonate
Page Preview
Page 563
Loading...
Download File
Download File
Page Text
________________ त्येवं सम्यगुत्थानेनोत्थाय पूर्वं पश्चात्ते लोकायतिकभावमुपगता आत्मनः - खतः पापकर्मभ्योऽप्रतिविरता भवन्ति, विरत्यभावे च यत्कुर्वन्ति तद्दर्शयति-- पूर्वं सावद्यारम्भान्निवृत्तिं विधाय नीलपटादिकं च लिङ्गमास्थाय स्वयमात्मना सावद्यमनुष्ठानमाददतेस्वीकुर्वन्ति अन्यानप्यादापयन्ति – ग्राहयन्त्यन्यमप्याददानं – परिग्रहं स्वीकुर्वन्तं समनुजानन्ति । एवमेव - पूर्वोक्तप्रकारेण स्त्रीप्र| धानाः स्त्रियोपलक्षिता वा काम्यन्त इति कामा भुज्यन्त इति भोगास्तेषु सात बहुलतयाऽजितेन्द्रियाः सन्तस्तेषु कामभोगेषु मूच्छिता| एकीभावतामापन्ना गृद्धाः - काङ्क्षावन्तो ग्रथिता - अवबद्धा अभ्युपपन्ना-आधिक्येन भोगेषु लुब्धा रागद्वेषा (पवशा) ती - रागद्वे| पवशगाः कामभोगान्धा वा, त एवं कामभोगेषु अवबद्धाः सन्तो नात्मानं संसारात्कर्मपाशाद्वा समुच्छेदयन्ति - मोचयन्ति, नापि परं सदुपदेशदानतः कर्मपाशावपाशितं समुच्छेदयन्ति - कर्मबन्धात्रोटयन्ति, नाप्यन्यान् दशविधप्राणवर्तिनः प्राणान् प्राणिनः, तथा अ| भूवन् भवन्ति भविष्यन्ति च भूतानि तथा आयुष्कधारणाजीवास्तान् तथा सत्त्वास्तथाविधवीर्यान्तरायक्षयोपशमापादितवीर्यगुणोपे| तास्तान् न समुच्छेदयन्ति, असदभिप्रायप्रवृत्तत्वात्, ते चैवंविधास्तञ्जीवतच्छरीरवादिनो लोकायतिका अजितेन्द्रियतया कामभोगावसक्ताः पूर्वसंयोगात् पुत्रदारादिकात्प्रहीणाः प्रभ्रष्टा आराद्यातः सर्वहेयधर्मेभ्य इत्यार्यो मार्गः - सदनुष्ठानरूपस्तमसंप्राप्ता इति, एवं पूर्वोक्तया नीत्या ऐहिकामुष्मिक लोकद्वयसदनुष्ठानभ्रष्टा अन्तराल एव भोगेषु विषण्णा स्तिष्ठन्ति, न विवक्षितं पौण्डरीकोत्क्षेप| णादिकं कार्य प्रसाधयन्तीति । अयं च प्रथमः पुरुषस्तञ्जीवतच्छरीरवादी परिसमाप्त इति । प्रथमपुरूषानन्तरं द्वितीयं पुरुषजातमधिकृत्याह अहावरे दोचे पुरिसजाए पंचमहन्भूतिएत्ति आहिज्जइ, इह खलु पाइणं वा ६ संतेगतिया मणुस्सा, भवंति Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy