SearchBrowseAboutContactDonate
Page Preview
Page 562
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गे २ श्रुतस्क न्धे शीलाङ्कीयावृत्तिः ॥२८० ॥ न्यस्तं धर्मं विषयिणामनुकूलं 'श्रद्दधानाः' खमतावतिशयेन रोचयन्तः तथा 'प्रतिपाद्यन्तः' अवितथभावेन गृह्णन्तः तथा तत्र रुचि कुर्वन्तः तथा साधु - शोभनमेतद्यत् यथा स्वाख्यातो - यथावस्थितो भवता धर्मोऽन्यथाऽसति हिंसादिष्ववर्त्तमानाः परलोकभयात्सुखसाधनेषु मांसमधादिष्वप्रवृत्तिं कुर्वन्तो मनुष्यजन्मफलवञ्चिता भवेयुः, ततः शोभनमकारि भवता हे श्रमण ! ब्राह्मण ! इति वा यदयं तञ्जीवतच्छरीरधर्मोऽस्माकमावेदितः काममिष्टमेतदस्माकं धर्मकथनं, खलुशब्दो वाक्यालङ्कारे, हे आयुष्मंस्त्वया वयमभ्युद्धृताः अन्यथा कापटिकैस्तीर्थिकैर्वञ्चिताः स्युरि (स्यामे) ति, तस्मादुपकारिणं 'त्वां' भवन्तं पूजयामः, अहमपि कश्चिदायुष्मतो भवतः प्रत्युपकारं करोमि । तदेव दर्शयति - तद्यथा 'असणेणे' त्यादि सुगमं यावत्पादपुञ्छनक मि (केने) ति । तत्रैके केचन पूर्वोक्तया पूजया पूजायां वा 'समाजहिंसुति समावृत्ताः - प्रवीभूतास्ते राजानः पूजां प्रति प्रवृत्ताः, तदुपदेष्टारो वा पूजामध्युपपन्नाः | सन्तस्तं राजादिकं खदर्शनप्रतिपन्नमेके केचन स्वदर्शनस्थित्या हिताहितप्राप्तिपरिहारेषु 'निकाचितवन्तो' नियमितवन्तः, तथाहिभवतेदं तञ्जीवतच्छरीरमित्यभ्युपगन्तव्यम्, अन्यो जीवोऽन्यच्च शरीरमित्येतच्च परित्याज्यम्, अनुष्ठानमपि एतदनुरूपमेव विधेयमित्येवं निकाचितवन्त इति ॥ तत्र ये भागवतादिकं लिङ्गमभ्युपगताः पश्चाल्लोकायत ग्रन्थश्रवणेन लोकायताः संवृत्तास्तेषां 'पूर्वम्' आदौ प्रव्रज्याग्रहणकाल एवैतत्परिज्ञातं भवति, तद्यथा - परित्यक्तपुत्रकलत्राः 'श्रमणा' यतयो भविष्यामः 'अनगारा' गृहरहिताः तथा 'निष्किञ्चना ः ' किञ्चनं द्रव्यं तद्रहिताः तथा 'अपशवो' गोमहिष्यादिरहिताः, परदत्तभोजिनः खतः पचनपाचनादिक्रियारहितखात्, भिक्षणशीला भिक्षवः, कियद्वक्ष्यते अन्यदपि यत्किञ्चित्पापं - सावद्यं कर्मानुष्ठानं तत्सर्वं न करिष्यामी (मह) १०द्यथा प्र० । Jain Education International For Personal & Private Use Only १ पुण्डरी काध्य० त जीवतच्छरीवादी ॥२८०॥ www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy