SearchBrowseAboutContactDonate
Page Preview
Page 561
Loading...
Download File
Download File
Page Text
________________ भूयन्ते, तदेवापन्ना अभिदा तमसावृतदृष्ट्यवम न्ते समाददति तदुपभोगार्थमिति ॥ साम्प्रतं तज्जीवतच्छरीरवादिमतमुपसंजिघृक्षुः प्रस्तावमारचयन्नाह-'एवं चेग' इत्यादि, मूर्तिमतः शरीरादन्यदमूर्त ज्ञानमात्मन्यनुभूयते, तस्य चामूर्तेनैव गुणिना भाव्यम् , अतः शरीरात्पृथग्भूत आत्माऽमूर्तो ज्ञानवत् तदाधारभूतोऽस्तीति, न चात्माभ्युपगममन्तरेण तजीवतच्छरीरवादिनः कथञ्चिद्विचार्यमाणं मरणमुपपद्यते, दृश्यन्ते च तथाभूत एव शरीरे म्रियमाणा मृताच, तथा कुतः समागतोऽहं कुत्र चेदं शरीरं परित्यज्य यास्यामि , तथा 'इदं मे शरीरं पुराणं कर्मे त्येवमादिकाः शरीरात्पृथग्भावनात्मनि संप्रत्यया अनुभूयन्ते, तदेवमपि स्वानुभवसिद्धेऽप्यात्मनि एके केचन नास्तिकाः पृथग्जीवास्तिखमश्रद्दधानाः 'प्रागल्भिका' प्रागल्भ्येन चरन्ति धृष्टतामापन्ना अभिदधति यद्ययमात्मा शरीरात्पृथग्भूतः स्यात् ततः संस्थानवर्णगंधरसस्पर्शान्यतमगुणोपेतः स्यात्, न च ते वराकाः खदर्शनानुरागाच्च तमसावृतदृष्टय एतद्विदन्ति यथा—मूर्तस्यायं धर्मो नामूर्तस्य, न हि ज्ञानस्य संस्थानादयो गुणाः संभाव्यन्ते, न च तत्तदभावेऽपि नास्ति, इत्येवमात्मापि संस्थानादिगुणरहितोऽपि विद्यत इति, एवं युक्तियुक्तमप्यात्मानं धार्थ्यान्नाभ्युपगच्छन्ति । तथा 'निष्क्रम्य च खदर्शनविहितां प्रव्रज्यां गृहीला नान्यो जीवः शरीराद्विद्यत इत्येवं यो धर्मो मदीयोऽयमित्येवमभ्युपगम्य स्वतोऽपरेषां च तं तथाभूतं धर्म प्रतिपादयन्ति । यद्यपि लोकायतिकानां नास्ति दीक्षादिकं तथाऽप्यपरेण शाक्यादिना प्रव्रज्याविधानेन प्रव्रज्य पश्चाल्लोकायतिकमधीयानस्य(नानां) तथाविधपरिण-|| तेस्तदेवाभिरुचितम् , अतो मामकोऽयं धर्मः (इति) स्वयमभ्युपगच्छन्त्यन्येषां च प्रज्ञापयन्ति, यदिवा-नीलपटाद्यभ्युपगन्तुः कश्चिदस्त्येव प्रव्रज्याविशेष इत्यदोष इति । सांप्रतं तत्प्रज्ञापितशिष्यव्यापारमधिकृत्याह-'तं सद्दहमाणे त्यादि, 'तं' नास्तिकवाद्युप १ ये मण्डलवादिकाः प्र.। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy