SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ SEA सूत्रकृताङ्गे २श्रुतस्कन्धे शीलाकीयावृत्तिः ॥२७९॥ Sरीरवादी eceaeseekeesecesese. 'हन्ता' व्यापादको भवति, प्राणातिपाते दोषाभावमभ्युपगम्यान्येषामपि प्राण्युपघातकारिणामुपदेशं ददाति, तद्यथा-प्राणिनः18 पुण्डरीखड्गादिना घातयत, पृथिव्यादिकं खनतेत्यादि सुगम यावद् 'एतावानेव' शरीरमात्र एव जीवः, ततः परलोकिनोऽभावाना-18 काध्यत| स्ति परलोकः, तदभावाच्च यथेष्टमासत(ध्वं), तथा चोक्तम्-"पिब खाद च साधु शोभने !, यदतीतं वरगात्रि! तन्न ते । न हि जीवतच्छ| भीरु ! गतं निवर्तते, समुदयमात्रमिदं कलेवरम् ॥१॥" तदेवं परलोकयायिनो जीवस्याभावान्न पुण्यपापे स्तः नापि परलोक इत्ययं येषां पक्षस्ते लोकायतिकास्तज्जीवतच्छरीरवादिनो नैवैतद्वक्ष्यमाणं विप्रतिवेदयन्ति-अभ्युपगच्छन्ति, तद्यथा-क्रियां वा सदनुष्ठानात्मिकाम् अक्रियां वा-असदनुष्ठानरूपाम् , एवं नैव ते विप्रतिवेदयन्ति, यदि हि आत्मा तक्रियावाप्तकर्मणो भोक्ता सात्ततोऽ| पायभयात्सदनुष्ठानचिन्ता स्यात् , तदभावाच्च सत्क्रियादिचिन्ताऽपि दूरोत्सादितैव । तथा सुकृतं दुष्कृतं वा कल्याणमिति वा पापमिति वा-साधु कृतमसाधु कृतमित्यादिका चिन्तैव नास्ति, तथाहि-सुकृतानां-कल्याणविपाकिनां साधुतयाऽवस्थानं दुष्क| तानां च-पापविपाकिनामसाधुखेनावस्थानम् , एतदुभयमपि सत्यात्मनि तत्फलभुजि संभवति, तदभावाच्च कुतोऽनर्थको हिताहि-॥९॥ तप्राप्तिपरिहारौ स्यातां ?, तथा सुकृतेन-कल्याणेन साध्वनुष्ठानेनाशेषकर्मक्षयरूपा सिद्धिस्तद्विपर्ययेणासिद्धिः, तथा दुष्कृतेन-पापानुबन्धिना असाध्वनुष्ठानेन नरकोऽनरको वा-तिर्यकनरामरगतिलक्षणः स्यादित्येवमात्मिका चिन्तैव न भवेत् , तदाधारस्यात्मसद्भावस्थानभ्युपगमादिति भावः । पुनरपि लोकायतिकानुष्ठानदर्शनायाह-'एवं ते' इत्यादि 'एवम्' अनन्तरोक्तेन प्रकारेण ते-18| ॥२७९॥ नास्तिका आत्माभावं प्रतिपद्य विरूपं-नानाप्रकारं रूपं-स्वरूपं येषां ते तथा कर्मसमारम्भाः-सावद्यानुष्ठानरूपाः पशुधातमांसभक्षणसुरापाननिलाञ्छनादिकास्तैरेवंभूतैर्नानाविधैः कर्मसमारम्भैः कृषीवलानुष्ठानादिभिर्विरूपरूपान् कामभोगान् 'समारभ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy