SearchBrowseAboutContactDonate
Page Preview
Page 559
Loading...
Download File
Download File
Page Text
________________ | कृष्णादीनां वर्णानांमध्ये कतमवर्णवर्ती ?, तथा द्वयोर्गन्धयोर्मध्ये किंगन्धः?, पण्णां रसानां मध्ये कतमरसवर्ती, तथाऽष्टानां स्प शानां मध्ये कतम स्पर्शे वर्तते । तदेवं संस्थानवर्णगन्धरसस्पर्शान्यरूपतया कथमप्यसावगृह्यमाणोऽसन्नसौ, तथापि केनापि प्रका| रेण संवेद्यमानोऽपि येषां तत्स्वाख्यातं भवति यथाऽन्यो जीवोऽन्यच्छरीरकमित्ययं पक्षः, तसात्पृथगविद्यमानखात्ते शरीरात्पृथगात्म18 वादिनो नैव वक्ष्यमाणनीत्याऽऽत्मानमुपलभन्ते । तद्यथा नाम कश्चित्पुरुषः 'कोशतः' परिवाराद् 'असिं' खड्गम् 'अभिनिवेत्ये'। | समाकृष्यान्येषामुपदर्शयेत् , तद्यथा-अयमायुष्मन् ! 'असिः' खगोऽयं च 'कोशः' परिवारः, एवमेव जीवशरीरयोरपि नास्त्युपद शयिता, तद्यथा-अयं जीव इदं च शरीरमिति, न चास्त्येवमुपदर्शयिता कश्चिद् अतः कायान्न भिन्नो जीव इति । अस्मिंश्चार्थे | |बहवो दृष्टान्ताः सन्तीत्यतो दर्शयितुमाह-तद्यथा वा कश्चित्पुरुषो 'मुञ्जात्' तृणविशेषात् 'इसियंति तद्गर्भभूतां शलाकां पृथ|कृत्य दर्शयेत् , तथा मांसादस्थि तथा करतलादामलकं तथा दध्नो नवनीतं तिलेभ्यस्तैलं इति तथेक्षो रसं तथाऽरणितोऽग्निमभिनि वर्त्य-पृथकृत्य दर्शयेद्, एवमेव शरीरादपि जीवमिति, न चास्त्येवमुपदर्शयिताऽतोऽसन्नात्मा शरीरात्पृथगसंवेद्यमानश्चेति । प्रयोगश्चात्र-सुखदुःखभाक् परलोकानुयायी नास्त्यात्मा, तिलशश्छिद्यमानेऽपि शरीरके पृथगनुपलब्धेः, घटात्मवत् , व्यतिरे| केण च कोशखगवत् , तदेवं युक्तिभिः प्रतिपादितेऽप्यात्माभावे येषां पृथगात्मवादिनां खदर्शनानुरागादेतत्वाख्यातं भवति, ४ तद्यथा-अन्यो जीवः परलोकानुयायी अमूर्तः, अन्यच्च तद्भववृत्ति मूर्तिमच्छरीरम् , एतच्च पृथङ् नोपलभ्यते तस्मातन्मिथ्या | | यत्कैश्चिदुच्यते यथाऽस्त्यात्मा परलोकानुयायीति ॥ एतदध्यवसायी च 'स' लोकायतिकः स्वतः प्राणिनामेकेन्द्रियादीनां croeceaercelcersesereeseseseroeseeo Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy