________________
वर्णको यावदुपशान्ताडना इति । तस्य चैवंविधगुणसंपवातपुत्रा इति, णवरं 'लेच्छइ'चिलिम, काम मित्यवधृतार्थेऽवतात
सुविभक्तावयवचारुदेहाः, तथा दुष्टरूपा-दुरूपा बीभत्सदेहाः, तेषां चोच्चैर्गोत्रादिविशेषणविशिष्टानां महान् कश्चिदेवैकस्तथाविधकर्मोदयाद्राजा भवति, स विशेष्यते-महाहिमवन्मलयमन्दरमहेन्द्राणामिव सारः-सामर्थ्य विभवो वा यस्य स तथा इत्येवं | राजवर्णको यावदुपशान्तडिम्बडमरं राज्यं प्रसाधयंस्तिष्ठतीति, तत्र डिम्बः-परानीकभृगालिको डमरं-खराष्ट्रक्षोभः, पर्यायौ वैतावत्यादरख्यापनार्थमुपात्तौ इति । तस्य चैवंविधगुणसंपदुपेतस्य राज्ञ एवंविधा पर्षद्भव[ती]ति, तद्यथा-उग्रास्तत्कुमाराश्चोग्रपुत्राः, एवं भोगभोगपुत्रादयोऽपि द्रष्टव्याः, शेषं सुगमं, यावत्सेनापतिपुत्रा इति, णवरं 'लेच्छइत्ति लिप्सुकः स च वणिगादिः, तथा प्रशास्तारो-बुद्ध्युपजीविनो मत्रिप्रभृतयः, तेषां च मध्ये कश्चिदेवैकः श्रद्धावान्-धर्मलिप्सुर्भवति, 'काम' मित्यवधृतार्थेऽवधृतमेतद्यथाऽयं धर्मश्रद्धालुः, अवधार्य च तं धर्मलिप्सुतया श्रमणा ब्राह्मणा वा 'संप्रधारितवन्तः समालोचितवन्तो धर्मप्रतिबोधनिमित्वं वदन्तिकगमनाय, तत्र चान्यतरेण धर्मेण-स्वसमयप्रसिद्धन प्रज्ञापयितारो क्यमित्येवं नाम संप्रधार्य-तं राजानं खकीयेन धर्मेण प्रज्ञापयिष्याम एवं संप्रधार्य राज्ञोऽन्तिकं गदैवमूचुः, तद्यथा-एतद्यथाऽहं कथयिष्यामि 'एव'मिति च वक्ष्यमाणनीत्या | भवन्तो-यूयं जानीत भयात्रातारो वा 'यथा' येन प्रकारेण मयैष धर्मः खाख्यातः सुप्रज्ञप्तो भवतीति । एवं तीर्थकः खदर्शना
नुरञ्जितोऽन्यस्यापि राजादेः स्वाभिप्रायेणोपदेशं ददाति ॥ तत्राद्यः पुरुषजातस्तज्जीवतच्छरीरवादी राजानमुद्दिश्यैवं धर्मदेशनां |चक्रे, तद्यथा-'ऊर्ध्वम् उपरि पादतलादधश्च केशाग्रमस्तकात्तिर्यक् च सपर्यन्तो जीवः, एतदुक्तं भवति-यदेवैतच्छरीरं स एव
जीवो, नैतसाच्छरीराव्यतिरिक्तोऽस्त्यात्मेत्यतस्तत्प्रमाण एव भवत्यसौ, इत्येवं च कुखैष आत्मा योऽयं कायोऽयमेव च तस्यात्मनः | राजान्तिकं प्र० । २ एतचाहं प्र० । ३ कथयामि प्र० ।
eeeeeeeeeeeeeeeee
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org