________________
सूत्रकृताङ्गे २ श्रुतस्कन्धे शीला
ङ्कीयावृत्तिः
॥२७७॥
गढिया अज्झोववन्ना लद्धा रागदोसवसट्टा, ते णो अप्पाणं समुच्छेदेति ते णो परं समुच्छेदेंति ते णो अण्णाई पाणाई भूताइं जीवाई सत्ताइं समुच्छेदेंति, पहीणा पुवसंजोगं आयरियं मग्गं असंपत्ता इति ते णो हवाए पारा अंतरा कामभोगेसु विसन्ना इति पढमे पुरिसजाए तज्जीवतच्छरीरएति आहिए ॥ सूत्रं ९ ॥ 'इह' अस्मिन्मनुष्यलोके, खलुर्वाक्यालङ्कारे, इहास्मिन् लोके प्राच्यां प्रतीच्यां दक्षिणायामुदीच्यामन्यतरस्यां वा दिशि 'सन्ति' विद्यन्ते एके केचन तथाविधा मनुष्याः आनुपूर्व्येणेमं लोकमाश्रित्योत्पन्ना भवन्ति । तानेवानुपूर्व्येण दर्शयति'तद्यथे' त्युपन्यासार्थः, आराद्याताः सर्वहेयधर्मेभ्य इत्यार्याः, तत्र क्षेत्रार्या अर्धपविंशतिजनपदोत्पन्नाः, तद्व्यतिरिक्तास्वनार्या एके केचन भवन्ति, ते चानार्यक्षेत्रोत्पन्ना अमी द्रष्टव्याः, तद्यथा - सगजवणसबरबब्बर कायमुरुंडोडगोड्डपक्कणिया । अरबागहोणरोमय पारसखसखासिया चैव ॥ १ ॥ डोंबिलयलउसबोकस भिल्लंधपुलिंद कोंब भमररुया । कोंचा य चीणचंचुयमालव दमिला कुलग्घा य || २ || केकयकिराय हयमुहखरमुह तह तुरगमेंढयमुहा य । हयकण्णा गयकण्णा अण्णे य अणारिया बहवे ॥ ॥ ३ ॥ पावा य चंडदंडा अणारिया णिग्विणा णिरणुकंपा | धम्मोति अक्खराई जेण ण णअंति सुमिणेवि ॥ ४ ॥ इत्यादि । तथोच्चैर्गोत्रम् - इक्ष्वाकुवंशादिकं येषां ते तथाविधा एके केचन तथाविधकर्मोदयवर्तिनः, वाशब्द उत्तरापेक्षया विकल्पार्थः तथा 'नीचे गोत्र' सर्वजनावगीतं येषां ते तथा एके केचन नीचैर्गोत्रोदयवर्तिनो, न सर्वे, वाशब्दः पूर्ववदेव, ते चोच्चैर्गोत्रा नीचैर्गोत्रावा । कायो - महाकायः प्रांशुखं तद्विद्यते येषां ते कायवंतः, तथा 'म्हस्ववन्तो' वामनककुब्जवडभादय एके केचन तथाविधनामकर्मोदयवर्तिनः, तथा शोभनवर्णाः सुवर्णाः- प्रतप्तचामीकरचारुदेहाः, तथा दुर्वर्णा :- कृष्णरूक्षादिवर्णा एके केचन तथा सुरूपा:
Jain Education International
For Personal & Private Use Only
१ पुण्डरीकाध्य०तजीवतच्छरीरवादी
॥२७७॥
www.jainelibrary.org