________________
महं पमवरपोंडरी बुझ्ए, अन्नउत्थिया य खलु मए अप्पाहड्ड समणाउसो ! ते चत्तारि पुरिसजाया बुइया, धम्मं च खलु मए अप्पाहड्ड समणाउसो ! से भिक्खू वुइए, धम्मतित्थं च खलु मए अप्पाड समणाउसो ! से तीरे बुइए, धम्मक च खलु मए अप्पाहड्ड समणाउसो ! से सद्दे बुझ्ए, निव्वाणं च खलु मए अप्पाहड्छु समणाउसो ! से उप्पाए बुइए, एवमेयं च खलु मए अप्पाहड्ड समणाउसो ! से एवमेयं बुइयं ॥ (सूत्रं ८) ॥
लोकमिति मनुष्यक्षेत्रं, चशब्द उत्तरापेक्षया समुच्चयार्थः, खलुरिति वाक्यालङ्कारे, मयेत्यात्मनिर्देशः, योऽयं लोको मनुष्याधारस्तमात्मनि 'आहृत्य' व्यवस्थाप्य अपाहृत्य वा हे आयुष्मन् ! श्रमण आत्मना वा मयाऽऽहृत्य न परोपदेशतः, सा पुष्करिणी पद्माधारभूतोक्ता, तथा कर्म चाष्टप्रकारं, यद्धलेन पुरुषपौण्डरीकाणि भवन्ति तदेवंभूतं कर्म मयाऽऽत्मन्याहृत्य आत्मना वा आहत्य अपाहृत्य वा, एतदुक्तं भवति - हे श्रमण ! आयुष्मन् सर्वावस्थानां निमित्तभूतं कर्माश्रित्य तदुदकं दृष्टान्तसेनोपन्यस्तं, कर्म चात्र दार्शन्तिकं भविष्यति, तत्रेच्छामदनकामाः शब्दादयो विषयास्ते एव भुज्यन्त इति भोगाः, यदिवा कामा- इच्छारूपा मदन कामास्तु भोगास्तान् मयाऽऽत्मन्याहृत्य 'सेयः' कर्दमोऽभिहितः, यथा महति पङ्के निमयो दुःखेनात्मानमुद्धरत्येवं विषयेष्वप्यासक्तो नात्मानमुद्धर्तुमलमित्येतत्कर्दमविषययोः साम्यमिति, तथा 'जनं' सामान्येन लोक, तथा जनपदे भवा जानपदा विशिष्टार्यदेशोत्पन्ना गृह्यन्ते, ते चार्द्धषड्विंशतिजनपदोद्भवा इति, तांश्च समाश्रित्य मया दान्तिकखेनाङ्गीकृत्य तानि बहूनि - पद्मवरपौण्डरीकाणि दृष्टान्तखेनाभिहितानि तथा राजानमात्मन्याहृत्य तदेकं पद्मवरपौण्डरीकं दृष्टान्तलेनाभिहितं तथाऽन्यती
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org