________________
सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाङ्कीयावृत्तिः
॥२७५॥
थिंकान् समाश्रित्य ते चत्वारः पुरुषजाता अभिहिताः, तेषां राजपौण्डरीकोद्धरणे सामर्थ्यवैकल्यात्, तथा धर्म च खल्वात्मन्याहृत्य श्रमणायुष्मन् ! स भिक्षुः रूक्षवृत्तिरभिहितः, तस्यैव चक्रवर्त्यादिराजपद्मवरपौण्डरीकोद्धरणे सामर्थ्य सद्भावात्, धर्मतीर्थं च खल्वाश्रित्य मया तत्तीरमुक्तं, तथा सद्धर्मदेशनां चाश्रित्य मया स भिक्षुसंबन्धी शब्दोऽभिहितः, तथा 'निर्वाण' मोक्षपदमशेषकर्मक्षयरूपमीषत्प्राग्भाराख्यं भूभागोपर्यवस्थितक्षेत्रखण्डं वाऽऽत्मन्याहृत्य स पद्मवरपौण्डरीकस्योत्पातोऽभिहित इति । साम्प्रतं समस्तोपसंहारार्थमाह- 'एवं' पूर्वोक्तप्रकारेण एतल्लोकादिकं च खल्वात्मन्याहृत्य - आश्रित्य मया श्रमणायुष्मन् ! 'से' एतत्पुष्करिण्यादिकं दृष्टान्तत्वेन किञ्चित्साधर्म्यादेवमेतदुक्तमिति ॥ ८ ॥ तदेवं सामान्येन दृष्टान्तदान्तिकयोर्योजनां कृत्वाऽधुना विशेषेण प्रधानभूतराजदान्तिकं [ तदुद्धरणार्थत्वात्सर्वप्रयासंस्येति ] दर्शयितुमाह
इह खलु पाईणं वा पडीणं वा उदीणं वा दाहिणं वा संतंगतिया मणुस्सा भवंति अणुपुब्वेणं लोगं उबबन्ना, तंजहा - आरिया वेगे अणारिया वेगे उच्चागोत्ता वेगे णीयागोया वेगे कायमंता वेगे रहस्समंता वेगे सुवन्ना वेगे दुब्वन्ना वेगे सुरूवा वेगे दुरूवा वेगे, तेसिं च णं मणुयाणं एगे राया भवइ, महयाहिमवंतमलयमंदरमहिंदसारे अच्चंतविसुद्धरायकुलवंसप्पसूते निरंतररायलक्खणविराइयंगमंगे बहुजणबहुमाणपूइए सव्वगुणसमिद्धे खत्तिए मुदिए मुद्धाभिसित्ते माउपिउसुजाए दयप्पिए सीमंकरे सीमंधरे खेमंकरे खेमंधरे मस्सिदे जणवयपिया जणवयपुरोहिए सेउकरे केउकरे नरपवरे पुरिसपवरे पुरिससीहे पुरिसआसी
१ द्वादशानं शासनं वा । २ राजदार्शन्तिकयोजने हेतुदर्शनाय टीप्पणमिदमित्याभाति ।
Jain Education International
For Personal & Private Use Only
१ पुण्डरीकाध्य० उपनयः
॥२७५॥
www.jainelibrary.org