SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ Jain Education Int चेदात्मैव तर्हि संज्ञान्तरेणाभ्युपगत इति । तथा बौद्धागमोऽप्यात्मप्रतिपादकोऽस्ति स चायम् – “ इत एकनवते कल्पे, शक्त्या | मे पुरुषो हतः । तेन कर्मविपाकेन पादे विद्धोऽस्मि भिक्षवः ! ॥ १ ॥” तथा “ कृतानि कर्माण्यतिदारुणानि, तनूभवन्त्यात्मनि गर्हणेन । प्रकाशनात्संवरणाच्च तेषामत्यन्तमूलोद्धरणं वदामि ॥ १ ॥" इत्येवमादि, तथा यदुक्तं क्षणिकत्वं साधयता यथा 'पदार्थः कारणेभ्य उत्पद्यमानो नित्यः समुत्पद्यतेऽनित्यो वे' त्यादि, तत्र नित्येऽप्रच्युतानुत्पन्नस्थिरैकखभावे कारकाणां व्यापाराभावादतिरिक्ता वाचोयुक्तिरिति नित्यत्वपक्षानुत्पत्तिरेव, यच्च नित्यपक्षे भवताऽभिहितं ' नित्यस्य न क्रमेणार्थक्रियाकारित्वं नापि यौगपद्येनेति' तत्क्षणिकत्वेऽपि समानं, यतः क्षणिकोऽप्यर्थक्रियायां प्रवर्तमानः क्रमेण यौगपद्येन वाऽवश्यं सहकारिकारणसव्यपेक्ष एव प्रवर्तते, यतः 'सामग्री जनिका न ह्येकं किञ्चिदिति तेन च सहकारिणा न तस्य कश्चिदतिशयः कर्तुं पार्यते, क्षणस्यावि| वेकखेनानाधेयातिशयखात्, क्षणानां च परस्परोपकारकोपकार्यखानुपपत्तेः सहकारित्वाभावः, सहकार्यनपेक्षायां च प्रतिविशि |ष्टकार्यानुपपत्तिरिति । तदेवमनित्य एव कारणेभ्यः पदार्थः समुत्पद्यत इति द्वितीयपक्षसमाश्रयणमेव, तत्रापि चैतदालोचनीयं - किं क्षणक्षयित्वेनानित्यत्वमाहोखित्परिणामानित्यतयेति ?, तत्र क्षणक्षयिले कारणकार्याभावात् कारकाणां व्यापार एवानुपपन्नः कुतः क्षणिका नित्यस्य कारणेभ्य उत्पाद इति ?, अथ पूर्वक्षणादुत्तरक्षणोत्पादे सति कार्यकारणभावो भवतीत्युच्यते, तदयुक्तं यतोऽसौ पूर्वक्षणो विनष्टो वोत्तरक्षणं जनयेदविनष्टो वा १, न तावद्विनष्टः, तस्यासत्वाञ्जनकत्वानुपपत्तेः, नाप्यविनष्टः, उत्तरक्षण काले पूर्वक्षव्यापारसमावेशात्क्षणभङ्गभङ्गापतेः, पूर्वक्षणो विनश्यंस्तूत्तरक्षणमुत्पादयिष्यति तुलान्तयोर्नामोन्नामवदिति चेत्, एवं तर्हि क्षणयोः स्पष्टवैककालताऽऽश्रिता, तथाहि - याऽसौ विनश्यदवस्था सावस्थातुरभिन्ना उत्पादावस्थाऽप्युत्पित्सोः, ततश्च तयोर्विनाशोत्पादयो For Personal & Private Use Only hinelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy