________________
| स्थिखा तदेतत्पध्र प्रासादीयादिप्रतिरूपान्तविशेषणकलापोपेतं स पुरुषः पूर्वदिग्भागव्यवस्थितः 'एव' मिति वक्ष्यमाणनीत्या
'वदेत् ब्रूयात्-'अहमंसि'त्ति अहमस्मि पुरुषः, किम्भूतः ?-'कुशलो' हिताहितप्रवृत्तिनिवृत्तिनिपुणः, तथा पापाडीमा 1 पण्डितो धर्मज्ञो देशकालज्ञः क्षेत्रज्ञो 'व्यक्तो बालभावानिष्क्रान्तः परिणतबुद्धिः 'मेधावी' प्लवनोत्प्लवनयोरुपायज्ञा, तथा 18 'अबालों' मध्यमवयाः षोडशवर्षोपरिवर्ती 'मार्गस्थः' सद्भिराचीर्णमार्गव्यवस्थितः तथा सन्मार्गज्ञः, तथा मार्गस्य या गतिर्मम ।। | वर्तते तया यत्पराक्रमणं-विवक्षितदेशगमनं तज्जानातीति पराक्रमज्ञः, यदिवा-पराक्रमः-सामर्थ्य तज्ज्ञोऽहमात्मज्ञ इत्यर्थः, तदेव-8 म्भूतविशेषणकलापोपेतोऽहम् 'एतत् पूर्वोक्तविशेषणकलापोपेतं पद्मवरपौण्डरीकं पुष्करिणीमध्यदेशावस्थितमहमुत्क्षेप्स्यामीतिकलेहागतः 'इति' एतत्पूर्वोक्तं तत् प्रतीयोक्खाऽसौ पुरुषस्तां पुष्करिणीमभिमुखं कामेत्-अभिकामेत् तदभिमुखं गच्छेत् , यावयाबच्चासौ तदवतरणाभिप्रायेणाभिमुखं कामेत्तावत्तावच्च णमिति वाक्यालङ्कारे तस्याः पुष्करिण्या महदगाधमुदकं तथा महांथ 'सेयर | कर्दमः, ततोऽसौ महाकर्दमोदकाभ्यामाकुलीभूतः प्रहीणः-सद्विवेकेन रहितस्त्यक्खा तीरं सुव्यत्ययाद्वा तीरात्पहीण:-प्रभ्रष्टः | अप्राप्तश्च विवक्षितं पद्मवरपौण्डरीकं तस्याः पुष्करिण्यास्तस्यां वा यः सेयः-कर्दमस्तसिन्निषण्णो निमम आत्मानमुद्धर्तुमसमर्थः, तसाच तीरादपि प्रभ्रष्टः, ततस्तीरपद्मयोरन्तराल एवावतिष्ठते, यत एवमतः 'नो हवाए'त्ति नार्वाक्तटवर्त्यसो भवति 'नो पाराए'ति नापि विवक्षितप्रदेशप्राप्त्या पारगमनाय वा समर्थो भवति । एवमसावुभयभ्रष्टो मुक्तमुक्तोलीवदनायैव प्रभवतीत्ययं प्रथमः पुरुषः, पुरुष एव पुरुषजातः-पुरुषजातीय इति ॥२॥ 'अर्थ' प्रथमपुरुषादनन्तरम् 'अपरो' द्वितीयः पुरुषजात:-पुरुष इति । अथवेति | वाक्योपन्यासार्थे, अथ-कश्चित्पुरुषो दक्षिणादिग्भागादागत्य तां पुष्करिणीं तस्याश्च पुष्करिण्यास्तीरे स्थिखा तत्रस्थश्च पश्यति
dain Education International
For Personal & Private Use Only
www.janelibrary.org