________________
सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाङ्कीयावृत्तिः ॥२७३॥
महदेकं पद्मवरपौण्डरीकमानुपूर्व्येण व्यवस्थितं प्रासादीयं यावत्प्रतिरूपम् 'अत्र च ' अस्मिंश्च तीरे व्यवस्थितः तं च पूर्वव्यवस्थि - तमेकं पुरुषं पश्यति, किम्भूतं ? - तीरात्परिभ्रष्टमनवाप्तपद्मवरपौण्डरीकमुभय भ्रष्टमन्तराल एवावसीदन्तं दृष्ट्वा च तमेवमवस्थं पुरुषं ततोऽसौ द्वितीयः पुरुषः तं प्राक्तनं पुरुषमेवं वदेत्- 'अहो' इति खेदे, सर्वत्र णमिति वाक्यालङ्कारे द्रष्टव्यो, योऽयं कर्दमे निमनः पुरुषः सोऽखेदज्ञोऽकुशलोऽपण्डितोऽव्यक्तोऽमेधावी बालो न मार्गस्थो नो मार्गज्ञो नो मार्गस्य गतिपराक्रमज्ञः, अकुशललादिके कारणमाह- 'यद्' यस्मादेष पुरुष एतत्कृतवान्, तद्यथा - अहं खेदज्ञः कुशल इत्यादि भणिला पद्मवरपौण्डरीकमुत्क्षेप्स्यामीत्येवं प्रतिज्ञातवान् न चैतत्पद्मवरपौण्डरीकम् 'एवम्' अनेन प्रकारेण यथाऽनेनोत्क्षेतुमारब्धमेवमुत्क्षेप्तव्यं यथाऽयं पुरुषो मन्यत इति ॥ ततोऽहमेवास्योत्क्षेपणे कुशल इति दर्शयितुमाह - 'अहमंसीत्यादि जाव दोघे पुरिसजाए'त्ति, सुगमं ॥ ३ ॥ तृतीयं पुरुषजातमधिकृत्याह - 'अहावरे तच्चे' इत्यादि सुगमं, यावच्चतुर्थ: पुरुषजात इति ॥ ४-५ ॥ साम्प्रतमपरं पञ्चमं तद्विलक्षणं पुरुषजातमधिकृत्याह - 'अथे' त्यानन्तर्ये, चतुर्थपुरुषादयमनन्तरः पुरुषः तस्यामूनि विशेषणानि - भिक्षणशीलो भिक्षुः- पचनपाचनादिसावद्यानुष्ठानरहिततया निर्दोषाहार भोजी, तथा 'रूक्षो' रागद्वेषरहितः, तौ हि कर्मबन्धहेतुतया स्निग्धौ यथा हि स्नेहाभावाद्रजो न लगति तथा रागद्वेषाभावात्कर्मरेणुर्न लगति, अतस्तद्रहितो रूक्ष इत्युच्यते, तथा संसारसागरस्य तीरार्थी, तथा क्षेत्रज्ञः खेदज्ञो वा, पूर्वं व्याख्यातान्येव विशेषणानि यावन्मार्गस्य गतिपराक्रमज्ञः, स चान्यतरस्या दिशो ऽनुदिशो वाऽऽगत्य तां पुष्करिणीं तस्याथ तीरे स्थित्वा समन्तादवलोकयन् बहुमध्यदेशभागे तन्महदेकं पद्मवरपौण्डरीकं पश्यति, तांश्च चतुरः पुरुषान् १ वदेद्विकर्मकत्वादन्यं प्रत्युच्चारेऽपि वाक्यस्य कर्मणि द्वितीयाऽत्रापि, अयमित्यादिना नाम्ना निर्देशोऽप्यस्यैवं न दोषाय ।
Jain Education International
For Personal & Private Use Only
१ पुण्डरी
काध्य०
दृष्टान्तः
॥२७३॥
www.jainelibrary.org