________________
सूत्रकृताङ्गे २श्रुतस्कन्धे शीलाकीयायां
वृत्ती
॥२६९॥
त्रिपल्योपमायुष्कषत्पादमनुभूय ततो देवेषूत्पद्यन्त इतिकृखा ततस्ते कायस्थित्या पौण्डरीका भवन्ति, अवशिष्टास्तु कण्डरीका १ पोण्डइति । कालपौण्डरीकानन्तरं गणनासंस्थानपौण्डरीकद्वयप्रतिपादनायाह-गणनया-सङ्ख्यया पौण्डरीक चिन्त्यमानं दशप्रकारस्य रीकाध्य. गणितस्य मध्ये 'रज्जु' रजुगणितं प्रधानखात्पौण्डरीकं, दशप्रकारं तु गणितमिदं-"परिकम्म १ रत्नु २ रासी ३ ववहारे ४ तह पुण्डरीककलासवण्णे ५ य । पुग्गल ६ जावं तावं ७ घणे य ८ घणवग्ग ९ वग्गे य १० ॥१॥" षण्णां संस्थानानां मध्ये समचतुरस्रं
निक्षेपाः संस्थानं प्रवरखात्पौण्डरीकमित्येवमेते द्वे अपि पौण्डरीके, शेषाणि तु परिकर्मादीनि गणितानि न्यग्रोधपरिमण्डलादीनि च संस्थानानि 'इतराणि' कण्डरीकान्यप्रवराणि भवन्तीतियावत् ॥ साम्प्रतं भावपौण्डरीकप्रतिपादनाभिधित्सयाऽऽह-'ओदई'त्यादि, औदयिके भावे तथौपशमिके क्षायिके क्षायोपशमिके पारिणामिके सान्निपातिके च भावे चिन्त्यमाने तेषु तेषां वा मध्ये ये 'प्रवरा' प्रधानाः 'तेऽपि' औदयिकादयो भावाः 'त एव' पौण्डरीका एवावगन्तव्याः, तथौदयिके भावे तीर्थकरा अनुत्तरोपपातिकसुरास्तथाऽन्येऽपि सितशतपत्रादयः पौण्डरीकाः, औपशमिके समस्तोपशान्तमोहाः, क्षायिक केवलज्ञानिनः, क्षायोपशमिके विपुलम|तिश्चतुर्दशपूर्ववित्परमावधयो व्यस्ताः समस्ता वा, पारिणामिके भावे भव्याः, सान्निपातिके भावे द्विकादिसंयोगाः सिद्धादिषु | खबुद्ध्या पौण्डरीकलेन योजनीयाः, शेषास्तु कण्डरीका इति । साम्प्रतमन्यथा भावपौण्डरिकप्रतिपादनायाह-'अहवावी'त्यादि अथवापि भावपौण्डरीकमिदं, तद्यथा-सम्यग्रज्ञाने तथा सम्यग्दर्शने सम्यश्चारित्रे ज्ञानादिके विनये तथा 'अध्यात्मनि च ॥२६९।। धर्मध्यानादिके ये 'प्रवराः' श्रेष्ठा मुनयो भवन्ति ते पौण्डरीकबेनावगन्तव्यास्ततोऽन्ये कण्डरीका इति । तदेवं सम्भविनमष्टधारी १ परिकर्म रजुः राशिः व्यवहारस्तथा कलासवर्णश्च । पुद्गलाः यावत्तावत् भवंति घनं घनमूलं वर्गः वर्गमूलं ॥१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org