SearchBrowseAboutContactDonate
Page Preview
Page 539
Loading...
Download File
Download File
Page Text
________________ DeeoSSRCasses8003800 |चक्रवर्तिनः षट्खण्डभरतेश्वराः तथा चारणश्रमणा बहुविधाश्चर्यभूतलब्धिकलापोपेता महातपखिनः तथा विद्याधरा वैताठ्यपुराधिपतयः तथा दशारा हरिवंशकुलोद्भवाः, अस्य चोपलक्षणार्थवादन्येऽपीक्ष्वाकादयः परिगृह्यन्ते, एतदेव दर्शयति-ये चान्ये महधिमन्तो महेभ्याः कोटीश्वरास्ते सर्वेऽपि पौण्डरीका भवन्ति, तुशब्दस्यानुक्तसमुच्चयार्थखात्, ये चान्ये विद्याकलाकलापोपेतास्ते पौण्डरीका इति । साम्प्रतं देवगतौ प्रधानस्य पौण्डरीकलं प्रतिपादयन्नाह-'भवणे'त्यादि, भवनपतिव्यन्तरज्योतिष्कवैमानिकानां चतुर्णा देवनिकायानां मध्ये ये प्रवराः-प्रधाना इन्द्रेन्द्रसामानिकादयस्ते प्रधाना इतिकखा पौण्डरीकाभिधाना भवन्ति । साम्प्रतमचित्तद्रव्याणां यत्प्रधानं तस्य पाण्डरीकखप्रतिपादनायाह-'कंसणा'मित्यादि, कांस्यानां मध्ये जयघण्टादीनि दृष्याणां चीनांशुकादीनि मणीनामिन्द्रनीलवैडूर्यपद्मरागादीनि रत्नानि मौक्तिकानां यानि वर्णसंस्थानप्रमाणाधिकानि, तथा शिलानां मध्ये पाण्डुकम्बलादयः शिलास्तीर्थजन्माभिषेकसिंहासनाधाराः, तथा प्रवालानां यानि वर्णादिगुणोपेतानि, आदिग्रहणाजात्यचामीकरं तद्विकाराचाभरणविशेषाः परिगृह्यन्ते, तदेवमनन्तरोक्तानि कांस्यादीनि यानि प्रवराणि तान्यचित्तपौण्डरीकाण्यभिधीयन्त इति । मिश्रद्रव्यपौण्डरीकं तु तीर्थकृचक्रवोदय एव प्रधानकटककेयूरायलङ्कारालङ्कता इति, द्रव्यपौण्डरीकानन्तरं क्षेत्रपौण्डरीकाभिधित्सयाऽऽह-'खित्तानी'त्यादि, यानि कानिचिदिह देवकुर्वादीनि शुभानुभावानि क्षेत्राणि तानि प्रवराणि पौण्डरीकाभिधानानि भवन्ति ॥ साम्प्रतं कालपौण्डरीकप्रतिपादनायाह-'जीवाः' प्राणिनो भवस्थित्या कायस्थित्या च ये 'प्रवराः' प्रधानास्ते पौण्डरीका भवन्ति, शेषास्वप्रधानाः कण्डरीका इति, तत्र भवस्थित्या देवा अनुत्तरोपपातिकाः प्रधाना भवन्ति, तेषां यावद्भवं || शुभानुभावखात् , कायस्थित्या तु मनुष्याः शुभकर्मसमाचाराः सप्ताष्टभवग्रहणानि मनुष्येषु पूर्वकोट्यायुष्केष्वनुपरिवानन्तरभवे || dan Education international For Personal & Private Use Only www.janelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy