________________
sensooneseac0000000000000000
अहाह भगवं-एवं से दंते दविए वोसटकाएत्ति वच्चे माहणेत्ति वा १ समणेत्ति वा २ भिक्खूत्ति वा ३ णिग्गंथेत्ति वा ४ पडिआह-भंते! कहं नु दंते दविए वोसटकाएत्ति वच्चे माहणेत्ति वा समणेत्ति वा भिक्खूत्ति वा णिग्गंथेत्ति वा ? तं नो ब्रूहि महामुणी!॥इतिविरए सवपावकम्मेहिं पिजदोसकलह० अब्भक्खाण. पेसुन्न० परपरिवाय० अरतिरति० मायामोस० मिच्छादं
सणसल्लविरए समिए सहिए सया जए णो कुज्झे णो माणी माहणेत्ति वच्चे १॥ 'अथे' त्ययं शब्दोऽवसानमङ्गलार्थः, आदिमङ्गलं तु बुध्येतेत्यनेनाभिहितं, अत आद्यन्तयोर्मङ्गलखात्सर्वोऽपि श्रुतस्कन्धो मङ्गलमित्येतदनेनावेदितं भवति । आनन्तर्ये वाऽथशब्दः, पञ्चदशाध्ययनानन्तरं तदर्थसंग्राहीदं षोडशमध्ययनं प्रारभ्यते । अथानन्तरमाह-'भगवान्'उत्पन्नदिव्यज्ञानः सदेवमनुजायां पर्षदीदं वक्ष्यमाणमाह, तद्यथा-एवमसौ पञ्चदशाध्ययनोक्तार्थयुक्तः स साधुदन्ति इन्द्रियनोइन्द्रियदमनेन द्रव्यभूतो मुक्तिगमनयोग्यखात् 'द्रव्यं च भव्ये' इति वचनात् रागद्वेषकालिकापद्रव्यरहितखाद्वाजात्यसुवर्णवत् शुद्धद्रव्यभूतस्तथा व्युत्सृष्टो निष्प्रतिकर्मशरीरतया कायः-शरीरं येन स भवति व्युत्सृष्टकायः, तदेवंभूतः सन् पूर्वोक्ता
ध्ययनार्थेषु वर्तमानः प्राणिनः स्थावरजङ्गमसूक्ष्मवादरपर्याप्तकापर्याप्तकभेदभिन्नान् मा हणत्ति प्रवृत्तिर्यस्यासौ माहनो नवब्रह्मचर्य& गुप्तिगुप्तो ब्रह्मचर्यधारणाद्वा ब्राह्मण इत्यनन्तरोक्तगुणकदम्बकयुक्तः साधुर्माहनो ब्राह्मण [ग्रन्थानम् ८०००] इति वा वाच्यः, तथा
SEEEEEEEErseseeeeeeeeeeees
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org