________________
सूत्रकृताङ्ग शीलाङ्काचार्यांय
त्तियुतं ॥२६३॥
श्राम्यति-तपसा खिद्यत इतिकृखा श्रमणो वाच्योऽथवा सम-तुल्यं मित्रादिषु मन:-अन्तःकरणं यस्य स समनाः सर्वत्र वासीच-18 १६ गाथान्दनकल्प इत्यर्थः, तथा चोक्तम्-"णत्थि य सि कोइ वेसो" इत्यादि । तदेवं पूर्वोक्तगुणकलितः श्रमणः सन् सममना वा इत्येवं 1 ध्ययनं. वाच्यः साधुरिति । तथा भिक्षणशीलो भिक्षुर्भिनत्ति वाऽष्टप्रकारं कर्मेति भिक्षुः स साधुर्दान्तादिगुणोपेतो भिक्षुरिति वाच्यः । तथा सबाह्याभ्यन्तरग्रन्थाभावान्निग्रन्थः । तदेवमनन्तरोक्तपञ्चदशाध्ययनोक्तार्थानुष्ठायी दान्तो द्रव्यभूतो व्युत्सृष्टकायश्च [स] | निर्ग्रन्थ इति वाच्य इति । एवं भगवतोक्ते सति प्रत्याह तच्छिष्यः-भगवन् !-भदन्त ! भयान्त ! भवान्त ! इति वा योऽसौ | दान्तो द्रव्यभूतो व्युत्सृष्टकायः सन् ब्राह्मणः श्रमणो भिक्षुर्निग्रन्थ इति वाच्यः तदेतत्कथं ? यद्भगवतोक्तं ब्राह्मणादिशब्दवा| च्यख साधोरिति, एतन्न:-अस्माकं 'ब्रूहि आवेदय 'महामुने ! यथावस्थितत्रिकालवेदिन ॥१॥ इत्येवं पृष्टो भगवान् ब्राह्म|णादीनां चतुर्णामप्यभिधानानां कथश्चिद्भेदादिनानां यथाक्रमं प्रवृत्तिनिमित्तमाह-'इति' एवं पूर्वोक्ताध्ययनार्थवृत्तिः सन् 'विरतो' निवृत्तः सर्वेभ्यः पापकर्मभ्यः-सावद्यानुष्ठानरूपेभ्यः स तथा, तथा प्रेम-रागाभिष्वङ्गलक्षणं द्वेषः-अप्रीतिलक्षणः कलहो-द्वन्द्वाधिकरणमभ्याख्यानम्-असदभियोगः पैशुन्यं (कर्णेजपखं) परगुणासहनतया तद्दोषोद्घट्टनमितियावत् परस्य परिवादः काका परदोषापादनं अरतिः-चित्तोद्वेगलक्षणा संयमे तथा रतिः-विषयाभिष्वङ्गो माया-परवञ्चना तया कुटिलमतमृषावादः-असदाभिधानं गामश्वं त्रुवतो भवति, मिथ्यादर्शनम्-अतत्त्वे तत्त्वाभिनिवेशस्तत्वे वाऽतचमिति, यथा-पैत्थि
॥२६३॥ ण णिचो ण कुणइ कयं ण वेएइ पत्थि णिवाणं । णत्थि य मोक्खोवाओ छम्मिच्छत्तस्स ठाणाई ॥१॥ इत्यादि, एतदेव शल्यं १ नास्ति तस्य कोऽपि द्वेष्पः । २ नास्ति न नियो न करोति न कृतं वेदयति नास्ति निर्वाणं । नास्ति च मोक्षोपायः पण्मिभ्यालस्य स्थानानि ॥१॥
dan Education International
For Personal & Private Use Only
www.jainelibrary.org.