SearchBrowseAboutContactDonate
Page Preview
Page 526
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गं शीलाङ्काचायीयवृ-1 त्तियुतं ॥२६२॥ 90000000000000000000000000 च्यते, समस्तस्यापि च श्रुतस्य क्षायोपशमिकभावे व्यवस्थितखात् , तत्र चानाकारोपयोगस्यासंभवादेवमभिधीयते इति । पुनरपि १६गाथा| तामेव विशिनष्टि-मधुरं-श्रुतिपेशलमभिधानम्-उच्चारणं यस्याः सा मधुराभिधानयुक्ता, गाथाछन्दसोपनिबद्धस्स प्राकृतस्य मधु- ध्ययनं. रखादित्यभिप्रायः, गीयते-पख्यते मधुराक्षरप्रवृत्त्या गायन्ति वा तामिति गाथा, यत एवमतस्तेन कारणेन गाथामिति तां युवते । णमिति वाक्यालङ्कारे एनां वा गाथामिति । अन्यथा वा निरुक्तिमधिकृत्याह-'गाथीकृता' पिण्डीकृता विक्षिप्ताः सन्त एकत्र मीलिता अर्था यस्यां सा गाथेति, अथवा सामुद्रेण छन्दसा वा निबद्धा सा गाथेत्युच्यते, तच्चेदं छन्द:-'अनिबद्धं च यल्लोके, | गाथेति तत्पण्डितैः प्रोक्तम्" । 'एषः अनन्तरोक्तो गाथाशब्दस्य 'पर्यायो' निरुक्तं तात्पर्यार्थो द्रष्टव्यः, तद्यथा-गीयतेऽसौ | गायन्ति वा तामिति गाथीकृता वार्थाः सामुद्रेण वा छन्दसेति गाथेत्युच्यते, अन्यो वा खयमभ्यूह्य निरुक्तविधिना विधेय इति । | पिण्डितार्थग्राहिखमधिकृत्याह-पञ्चदशस्वप्यध्ययनेषु अनन्तरोक्तेषु 'पिण्डितः' एकीकृतोऽर्थो येषां तानि पिण्डितार्थानि तेषु सर्वेष्वपि य एवं व्यवस्थितोऽर्थस्तम् 'अवितथं यथावस्थितं पिण्डितार्थवचनेन यसाद् ग्रश्चात्येतदध्ययनं पोडशं 'ततः' पिण्डि-18 तार्थग्रथनाद्गाथेत्युच्यत इति । 'तत्वभेदपर्यायाख्ये तिकता तत्वार्थमधिकृत्याह-पोडशाध्ययने अनगाराः-साधवस्तेषां गुणा:-क्षान्त्यादयस्तेषामनगारगुणानां पञ्चदशस्वप्यध्ययनेष्वभिहितानामिहाध्ययने पिण्डितार्थवचनेन यतो वर्णनाभिहिता उक्ताऽतो गाथाषोडशाभिधानमध्ययनमिदं 'व्यपदिशन्ति प्रतिपादयन्ति । उक्तो नामनिष्पन्न निक्षेपनियुक्त्यनुगमः, तदनन्तरं ॥२६२॥ | सूत्रस्पर्शिकनियुक्त्यनुगमस्यावसरः, स च सूत्रे सति भवति, सूत्रं च सूत्रानुगमे, असावप्पवसरप्राप्त एवातोऽस्खलितादिगुणोपेतं सूत्रानुगमे मूत्रमुच्चारणीयं, तच्चेदम् dan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy