________________
येाः प्रतिपादितास्तेत्र संक्षेपतः प्रतिपाद्यन्त इत्यनेन संबन्धेनायातस्यास्याध्ययनस्य चखायुपक्रमादीन्यनुयोगद्वाराणि भवन्ति । तत्रोपक्रमान्तर्गतोऽर्थाधिकारोऽनन्तरमेव संबन्धप्रतिपादनेनैवाभिहितः । नामनिष्पन्ने तु निक्षेपे गाथापोडशकमिति नाम । तत्र गाथानिक्षेपार्थं नियुक्तिकृदाह___णामंठवणागाहा दव्वगाहा य भावगाहा य । पोत्थगपत्तगलिहिया सा होई दब्वगाहा उ ॥ १३७॥
होति पुण भावगाहा सागारुवओगभावणिप्फन्ना । महुराभिहाणजुत्ता तेणं गाहत्ति णं चिंति ॥ १३८॥ गाहीकया व अत्था अहव ण सामुद्दएण छंदेणं। एएण होति गाहा एसो अन्नोऽवि पज्जाओ ॥ १३९॥ पण्णरससु अज्झयणेसु पिंडितत्थेसु जो अवितहत्ति । पिंडियवयणेणऽत्थं गहेति तम्हा ततो गाहा ॥१४०॥18 सोलसमे अज्झयणे अणगारगुणाण वण्णणा भणिया । गाहासोलसणामं अज्झयणमिणं ववदिसंति॥१४॥
तत्र गाथाया नामादिकश्चतुर्धा निक्षेपः, तत्रापि नामस्थापने क्षुण्णखादनादृत्य द्रव्यगाथामाह-तत्र ज्ञशरीरभव्यशरीरव्यति-10 रिक्ता द्रव्यगाथा पत्रकपुस्तकादिन्यस्ता, तद्यथा-जयति णवणलिणकुवलयवियसियसयवत्तपत्तलदलच्छो । वीरो गइंदमयगलसुल-18 लियगयविक्कमो भगवं ॥१॥ अथवेयमेव गाथाषोडशाध्ययनरूपा पत्रकपुस्तकन्यस्ता द्रव्यगाथेति । भावगाथामधिकृत्याहभावगाथा पुनरियं भवति, तद्यथा-योऽसौ साकारोपयोगः क्षायोपशमिकभावनिष्पन्नो गाथां प्रति व्यवस्थितः सा भावगाथेत्यु
१ गाथैव षोडशं गाथाषोडशं तदेव गाथाषोडशकं गाथाख्यं षोडशमध्ययनं यत्र तत्तथा वा। २ जयति नवनलिनीकुवलयविकसितशतपत्रपत्रलदलाक्षः । वीरो गल-न्मदगजेन्द्रसुललितगतिविक्रमो भगवान् ॥१॥
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org