________________
सूत्रकृताङ्गं अथ षोडशं श्रीगाथाध्ययनं प्रारभ्यते ॥
१६ गाथाशीलाङ्का
ध्ययनं. चार्यायवृत्तियुतं
___ उक्तं पञ्चदशमध्ययनं, साम्प्रतं षोडशमारभ्यते, अस्य चायमभिसंबन्धः-इहानन्तरोक्तेषु पञ्चदशस्वप्यध्ययनेषु येा अभिहिता | ॥२६॥
विधिप्रतिषेधद्वारेण तान् तथैवाचरन् साधुर्भवतीत्येतदनेनाध्ययनेनोपदिश्यते, ते चामी अर्थाः, तद्यथा-प्रथमाध्ययने स्वसमयप| रसमयपरिज्ञानेन सम्यक्खगुणावस्थितो भवति द्वितीयाध्ययने ज्ञानादिभिः कर्मविदारणहेतुभिरष्टप्रकारं कर्म विदारयन् साधुर्भ| वति तथा तृतीयाध्ययने यथाऽनुकूलप्रतिकूलोपसर्गान् सम्यक् सहमानः साधुर्भवति चतुर्थे तु स्त्रीपरीपहस्य दुर्जयखात्तजयकारीति |
| पञ्चमे तु नरकवेदनाभ्यः समुद्विजमानस्तत्प्रायोग्यकर्मणो विरतः सन्साधुखमवाप्नुयात् षष्ठे तु यथा श्रीवीरवर्धमानस्वामिना | कर्मक्षयोद्यतेन चतुर्ज्ञानिनापि संयम प्रति प्रयत्नः कृतस्तथाऽन्येनापि छद्मस्थेन विधेय इति सप्तमे तु कुशीलदोषान् ज्ञाखा तत्परि
हारोद्यतेन सुशीलावस्थितेन भाव्यम् अष्टमे तु बालवीर्यपरिहारेण पण्डितवीर्योद्यतेन सदा मोक्षाभिलाषिणा भाव्यं नवमे तु यथोक्तं साक्षान्त्यादिकं धर्ममनुचरन् संसारान्मुच्यत इति दशमे तु संपूर्णसमाधियुक्तः सुगतिभाग्भवति एकादशे तु सम्यग्दर्शनज्ञानचारि-||
॥२६॥ त्राख्यं सन्मार्ग प्रतिपन्नोऽशेषक्लेशप्रहाणं विधत्ते द्वादशे तु तीर्थिकदर्शनानि सम्यग्गुणदोषविचारणतो विजानन्न तेषु श्रद्धानं विधत्ते त्रयोदशे तु शिष्यगुणदोषविज्ञः सद्गुणेषु वर्तमानः कल्याणभाग्भवति चतुर्दशे तु प्रशस्तभावग्रन्थभावितात्मा विस्रोतसिकारहितो भवति पञ्चदशे तु यथावदायतचारित्रो भवति भिक्षुस्तदुपदिश्यत इति । तदेवमनन्तरोक्तेषु पञ्चदशवध्ययनेषु
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org