SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ रं कर्म तत्सर्व हत्यत्तरजसैवोपादीयते, स च तत्वावरतिप्रमादकपाययोगैर्यत्कृत नराधान्न करोत्यसाविति ॥२वने । 'निर्याताय' निर्जरणाय प्रवर्तकं पण्डितवीर्य, तच्च बहुभवशतदुर्लभं कथश्चित्कर्म विवरादवाप्य 'धुनीयाद' अपनयेत् पूर्वभवेष्वने-| केषु यत्कृतम्-उपात्तं कर्माष्टप्रकारं तत्पण्डितवीर्येण धुनीयात् 'नवं च' अभिनवं चावनिरोधान्न करोत्यसाविति ॥ २२ ॥ किञ्च-'महावीर' कर्मविदारणसहिष्णुः सन्नानुपूर्येण मिथ्याखाविरतिप्रमादकपाययोगैर्यत्कृतं रजोऽपरजन्तुभिस्तदसौ 'न करो ति' न विधत्ते, यतस्तत्प्राक्तनोपात्तरजसैवोपादीयते, स च तत्प्राक्तनं कर्मावष्टभ्य सत्संयमात्संमुखीभूतः, तदभिमुखीभूतश्च 18| यन्मतमष्टप्रकारं कर्म तत्सर्व 'हित्वा' त्यक्ता मोक्षस्य सत्संयमस्य वा सम्मुखीभूतोऽसाविति ॥ २३ ॥ अन्यच्च-'जम्मय-18 | मित्यादि, सर्वसाधूनां यत् 'मतम्' अभिप्रेतं तदेतत्सत्संयमस्थानं, तद्विशिनष्टि शल्यं-पापानुष्ठानं तजनितं वा कर्म तत्कर्तयति-छिनत्ति यत्तच्छल्यकर्तनं तच्च सदनुष्ठानं उद्युक्तविहारिणः 'साधयित्वा' सम्यगाराध्य बहवः संसारकान्तारं तीर्णाः, अपरे तु सर्वकर्मक्षयाभावात् देवा अभूवन् , ते चाप्तसम्यक्त्वाः सच्चारित्रिणो वैमानिकखमवापुः प्राप्नुवन्ति प्राप्स्यन्ति चेति ॥२४॥ सर्वोपसंहारार्थमाह-'पुरा' पूर्वसिन्ननादिके काले बहवो 'महावीराः' कर्मविदारणसहिष्णवः 'अभूवन्' भूताः, तथा वर्तमाने च काले कर्मभूमौ तथाभूता भवन्ति तथाऽऽगामिनि चानन्ते काले तथाभूताः सत्संयमानुष्ठायिनो भविष्यन्ति, ये किं कृतवन्तः॥ कुर्वन्ति करिष्यन्ति चेत्याह-यस्य दुर्निबोधस्य-अतीव दुष्प्रापस्य(मार्गस्य)ज्ञानदर्शनचारित्राख्यस्य 'अन्तं परमकाष्ठामवाप्य तस्यैव | मार्गस्य 'प्रादुः प्राकाश्यं तत्करणशीलाः प्रादुष्कराः खतः सन्मार्गानुष्ठायिनोज्येषां च प्रादुर्भावकाः सन्तः संसारार्णवं तीर्णास्तरन्ति | तरिष्यन्ति चेति । गतोऽनुगमः, साम्प्रतं नयाः, तेच प्राग्वत् द्रष्टव्याः। इतिरध्ययनपरिसमाप्तौ, ब्रवीमीति पूर्ववत् ॥ २५ ॥ इति आदानीयाख्यं पञ्चदशाध्ययनं समाप्तम् ।। Sataraeeseceae Jain Education International For Personal & Private Use Only www.janelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy