________________
सूत्रकृताङ्ग शीलाङ्काचाययवृतियुतं
॥२६०॥
| निरूपणकारणतश्चक्षुर्भूता हिताहितप्राप्तिपरिहारं कुर्वन्तः सकललोकलोचनभूतास्तथागताः सर्वज्ञा भवन्तीति ॥२०॥ किञ्चान्यत्अणुत्तरे ठाणे से, कासवेण पवेदिते । जं किच्चा णिव्वुडा एगे, निट्टं पार्वति पंडिया ॥ २१ ॥ पंडिए वीरियं लडु, निग्घायाय पवत्तगं । धुणे पुढकडं कम्मं, णवं वाऽवि ण कुवती ॥ २२ ॥ कुवती महावीरे, अणुपुबकडं रयं । रयसा संमुहीभूता, कम्मं हेच्चाण जं मयं ॥ २३ ॥ जं मयं सवसाहूणं, तं मयं सलगत्तणं । साहइत्ताण तं तिन्ना, देवा वा अभविंसु ते ॥ २४ ॥ अभ िपुराधी (वी) रा, आगमिस्सावि सुता । दुन्निबोहस्स मग्गस्स, अंतं पाउकरा तिने ॥२५॥ तिमि । इति पनरसमं जंमइयं नामज्झयणं समत्तं ॥ ( गाथा ६४३ )
I
न विद्यते उत्तरं-प्रधानं यस्मादनुत्तरं स्थानं तच्च तत्संयमाख्यं 'काश्यपेन' काश्यपगोत्रेण श्रीमन्महावीरवर्धमानखामिना 'प्रवेदितम्' आख्यातं, तस्य चानुत्तरत्वमाविर्भावयन्नाह - 'यद्' अनुत्तरं संयमस्थानं 'एके' महासत्त्वाः सदनुष्ठायिनः 'कृत्वा' अनुपालय 'निर्वृताः' निर्वाणमनुप्राप्ताः, निर्वृताश्च सन्तः संसारचक्रवालस्य 'निष्ठा' पर्यवसानं 'पण्डिताः पापाड्डीनाः प्राप्नुवन्ति, तदेवंभूतं संयमस्थानं काश्यपेन प्रवेदितं यदनुष्ठायिनः सन्तः सिद्धिं प्राप्नुवन्तीति तात्पर्यार्थः ॥ २१ ॥ अपिच - 'पण्डि तः' सदसद्विवेकज्ञो 'वीर्य' कर्मोद्दलनसमर्थं सत्संयमवीर्यं तपोवीर्यं वा 'लब्ध्वा' अवाप्य, तदेव वीर्यं विशिनष्टि - निःशेषकर्मणो
Jain Education International
For Personal & Private Use Only
१५ आदानीयाध्य०
॥२६०॥
www.jainelibrary.org